________________
२३
स्याद्वादमञ्जरीसहिता
श्लोक ५
मुत्पत्तिः ? इति चेत्, अहो स्वपक्षपाती देवानांप्रियः - यः खलु स्वयमेकस्माद् निरंशाद् रूपादिक्षणलक्षणात् कारणाद् युगपदनेककार्याण्यङ्गीकुर्वाणोऽपि परपक्षे नित्येऽपि वस्तुनि क्रमेण नानाकार्यकरणेऽपि विरोधमुद्भावयति । तस्माद् क्षणिकस्यापि भावस्याक्रमे - णार्थक्रिया दुर्घटा ।
इत्यनित्यैकान्तादपि क्रमाक्रमयोर्व्यापकयोर्निवृत्त्यैव व्याप्यार्थक्रियापि व्यावर्तते; तद्व्यावृत्तौ च सत्त्वमपि व्यापकानुपलब्धिवलेनैव निवर्तते । इत्येकान्तानित्यवादोऽपि न रमणीयः ।
स्याद्वादे तु पूर्वोत्तराकारपरिहारस्वीकारस्थितिलक्षणपरिणामेन भावानामर्थक्रियोपपत्तिरविरुद्वा । न चैकत्र वस्तुनि परस्परविरुद्धधर्माध्यासायोगादसन् स्याद्वाद इति वाच्यम्; नित्यानित्यपक्षविलक्षणस्य पक्षान्तरस्याद्ङ्गीक्रियमाणत्वात् तथैव च सर्वैरनुभवात् । तथा च पठन्ति -
“ भागे सिंहो नरो भागे योऽर्थो भागद्वयामकः । 'तमभागं विभागेन नरसिंहं प्रचक्षते " ॥ १ ॥ इति । वैशेषिकैरपि चित्ररूपस्यैकस्यावयविनोऽभ्युपगमात् । एकस्यैव पटादेश्चलाचलरक्तारक्ताट्टतानावृतत्वादिविरुद्धधर्माणामुपलब्धेः सौगतैरप्येकत्र चित्रपटीज्ञाने नीलानीलयोर्विरोधानङ्गीकारात् ।
अत्र च यद्यप्यधिकृतवादिनः प्रदीपादिकं कालान्तरावस्थायित्वात् क्षणिकं न मन्यन्तेः तन्मते पूर्वापरान्तावच्छिन्नायाः सत्ताया एवानित्यतालक्षणात् । तथापि बुद्धिसुखादिकं तेऽपि क्षणिकतयैव प्रतिपन्नाः ; इति तदाधकारेऽपि क्षणिकवादचर्चा नानुपपन्ना । यदपि च कालान्तरावस्थायि वस्तु, तदपि नित्यानित्यमेव । क्षणोऽपि न
१ ' यदापि ' इति रा. पुस्तके पाठः । २ ' तदापि इति रा. पुस्तके पाठः ।