________________
२४
श्लोक ५
अन्ययोगव्यवच्छेदिका खलु सोऽस्ति-यत्र वस्तु उत्पादन्ययध्रौव्यात्मकं नास्ति इति काव्यार्थः ॥५॥ __ अथ तदभिमतमीश्वरस्य जगत्कर्तृत्वाभ्युपगमं मिथ्याभिनिवेशरूपं निरूपयन्नाहकर्तास्ति कश्चिद् जगतः स चैकः
स सर्वगः स स्ववशः स नित्यः। इमाः कुहेवाकविडम्बनाः स्यु
स्तेषां न येषामनुशासकस्त्वम् ॥६॥ जगतः– प्रत्यक्षादिप्रमाणोपलक्ष्यमाणचराचररूपस्य . विश्वत्रयस्य, काश्चिद्-अनिर्वचनीयस्वरूपः, पुरुषविशेषः, कर्ता-स्रष्टा, अस्ति-विद्यते । ते हि इत्थं प्रमाणयन्ति-उर्वीपर्वततर्वादिकं सर्व, बुद्धिमत्कर्तृकं, कार्यत्वात्; यद् यत् कार्य तत् तत्सर्वं बुद्धिमत्कर्तृकं, यथा घटः, तथा चेदं, तस्मात् तथा; व्यतिरेके व्योमादि । यश्च बुद्धिमांस्तत्कर्ता-स भगवानीश्वर एवेति ।
न चायमासिद्धो हेतुः—यतो भूभूधरादेः स्वस्वकारणकलापजन्यतया, अवयावतया वा कार्यत्वं सर्ववादिनां प्रतीतमेव । नाप्यनैकान्तिको विरुद्धो वा-विपक्षादत्यन्तव्यावृत्तत्वात् । नापि कालात्ययापदिष्टः-प्रत्यक्षानुमानागमाबाधितधर्मधर्म्यनन्तरप्रतिपादितत्वात्। नापिप्रकरणसमः-तत्पतिपन्थिधर्मोपपादनसमर्थप्रत्यनुमानाभावात्।
१ अयं साध्यसमशब्देनाभिधीयते । तल्लक्षणं-'साध्याविशिष्टः साध्यत्वात्साध्यसमः'। गौतमसूत्र । १-२-८। २ तल्लक्षणं-'अनैकान्तिकः सव्यभिचारः' । गौतमसूत्रे १-२-५ । ३ तल्लक्षणं-' सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः '। गौतमसूत्रे १-२-६ । ४ तल्लक्षणं-'कालात्ययापदिष्टः कालातीतः 'गौतमसूत्रो १-२-९। ५ तल्लक्षणं-'यस्मात्प्रकरणचिन्ता स निर्णयार्थमपदिष्टः प्रकरणसमः'गौतमसूत्रे१-२-७।