________________
२५ स्याद्वादमञ्जरीसहिता श्लोक ६
न च वाच्यम्-ईश्वरः-पृथ्वीपृथ्वीधरादोधाता न भवति अशरीरत्वातः निर्वृत्तात्मवतः इति प्रत्यनुमानं तद्बाधकामिति । यतोऽत्रेश्वररूपो धर्मी प्रतीतोऽप्रतीतो वा प्ररूपितः ?। न तावदप्रतीतः; हेतोराश्रयासिद्धिप्रसंगात् । प्रतीतश्चेत्, येन प्रमाणेन स प्रतीतस्तेनैव किं स्वयमुत्पादितस्वतनुर्न प्रतीयते ?; इत्यतः कथमशरीरत्वम् ? तस्मानिरवद्य एवायं हेतुरिति।
स चैक इति-चः- पुनरर्थे । स पुनः-पुरुषविशेषः ; एकःअद्वितीयः । बहूनां हि विश्वविधातृत्वस्वीकारे, परस्परविमतिसंभावनाया अनिवार्यत्वाद्-एकैकस्य वस्तुनोऽन्यान्यरूपतया निर्माणे सर्वसमञ्जसमापद्येत, इति । तथा स सर्वग-इति । सर्वत्र गच्छतीति सर्वगः-सर्वव्यापी। तस्य हि प्रतिनियतदेशवर्तित्वेऽनियतदेशवृत्तीनां विश्वत्रयान्तर्वर्तिपदार्थसार्थानां यथावन्निर्माणाऽनुपपत्तिः, कुम्भकारादिषु तथा दर्शनाद् । अथवा सर्व गच्छति-जानातीति सर्वगः-सर्वज्ञः सर्वे गत्यर्था ज्ञानार्थाः' इति वचनात्।सर्वज्ञत्वाभावे हि यथोचितोपादानकारणाधनभिज्ञत्वाद्-अनुरूपकार्योत्पत्तिर्न स्यात्।
. तथा स स्ववश:-स्वतन्त्रः, सकलपाणिनां स्वेच्छया सुखदुःखयोरनुभावनसमर्थत्वात् । तथा चोक्तम्-.
" ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा । अन्यो जन्तुरनीशोऽयमात्मनःसुखदुःखयोः"॥१॥ इति-पारतन्त्र्ये तु तस्य परमुखप्रक्षितया मुख्यकर्तृत्वव्याघाताद् अनीश्वरत्वापत्तिः।
तथा स नित्य इति-अप्रच्युतानुत्पन्नस्थिरैकरूपः । तस्य १ 'आपनीपद्येत' इति घ. ख. ह, पुस्तकेषु पाठः। २ गत्यर्था ज्ञानार्थाः ' हेमहंसगणिसमुचितहेमचन्द्रव्याकरणस्थन्यायः ४४ इति ।