________________
श्लोक ६
अन्ययोगव्यवच्छेदिका ह्यनित्यत्वे परोत्पाद्यतया कृतकत्वप्राप्तिः, अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इत्युच्यते । यच्चापरस्तत्कर्ता कल्प्यते, स नित्योऽनित्यो वा स्यात् ? । नित्यश्चेत्–अधिकृतेश्वरेण किमपराद्धम् ? । अनित्यश्चेत् तस्याप्युत्पादकान्तरेण भाव्यम्। तस्यापि नित्यानित्यत्वकल्पनायाम्-अनवस्थादौस्थ्यामिति ।
तदेवमेकत्वादिविशेषणविशिष्टो भगवानीश्वरस्त्रिजगत्कर्तेति पराभ्युपगममुपदर्य उत्तरार्धेन तस्य दुष्टत्वमाचष्टे-इमाः-एताः, अनन्तरोक्ताः, कुहेवाकविडम्बनाः-कुत्सिता हेवाकाः-आग्रहविशेषाः कुहेवाकाः कदाग्रहा इत्यर्थः। त एव विडम्बनाः-विचारचातुरीबाह्यत्वेन तिरस्काररूपत्वाद् ‘विगोपकप्रकारः; स्युः भवेयुः तेषांप्रामाणिकापसदानां; येषां हे स्वामिन् त्वं, नानुशासकः-न शिक्षादाता।
___ तदभिनिवेशानां विडम्बनारूपत्वज्ञापनार्थमेव पराभिप्रेतपुरुषविशेषणेषु प्रत्येकं तच्छब्दप्रयोगमसूयागर्भमाविर्भावयाञ्चकार स्तुतिकारः, तथा चैकमेव निन्दनीयं प्रति वक्तारो वदन्ति–स मूर्खः, स पापीयान्, स दरिद्र इत्यादि । त्वमित्येकवचनसंयुक्तयुष्मच्छब्दप्रयोगेण-परमशितुः परमकारुणिकतयानपेक्षितस्वपरपक्षविभागमद्वितीयं हितोपदेशकत्वं ध्वन्यते ।
अतोऽत्रायमाशयः यद्यपि भगवानविशेषेण सकलजगजन्तुजातहितावहां सर्वेभ्य एव देशनावाचमाचष्टे, तथापि सैव केषाश्चिद् निचितनिकाचितपापकर्मकलुषितात्मनां रुचिरूपतया न परिणमते ।
१ 'नित्यानित्यविकल्पकल्पनायाम् ' इति क. पुस्तके पाठः। २ विशेषतया गोपनामकारा इत्यर्थः । 'विक्षेपप्रकाराः' इति च. पुस्तके पाठः। ३ 'च' इत्यधिकं क. पुस्तके । ४ 'चैवमेव ' इति रा. पुस्तके पाठः । ५ ' कल्माषितात्मनाम् ' इति क. ख. घ. पुस्तकेषु पाठः ।