________________
२७
स्याद्वादमञ्जरीसाहता
श्लोक ६ अपुनर्बन्धकादिव्यतिरिक्तत्वेनायोग्यत्वात् । तथा च कादम्बयों बाणोऽपि बभाण-" अपगतमले हि मनसि स्फटिमणाविव रजनिकरगभस्तयो विशन्ति सुखमुपदेशगणाःगुरुवचनममलमपि सलिलमिव महदुपजनति श्रवणस्थितं 3 शूलमभव्यस्य"इति।अतो वस्तुवृत्त्या न तेषां भगवाननुशासक इति'
न चैतावता जगद्गुरोरसामर्थ्यसम्भावना । न हि कालदृष्टमनुज्जीवयन् समुज्जीवितेतरदृष्टको विषभिषगुपालम्भनीयः, अतिप्रसंगात् । स हि तेषामेव दोषः। न खलु निखिलभुवनाभोगमवभासयन्तोऽपि भानवीया भानवः कौशिकलोकस्यालोकहेतुतामभजमाना उपालम्भसम्भावनास्पदम् । तथा च श्रीसिद्धसेनः
“सद्धर्मबीजवपनानघकौशलस्य यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नातं, खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः" ॥१॥ .. अथ कथमिव तत् कुहेवाकानां विडम्बनारूपत्वम् १, इति
१ 'पावं ण तिव्वभावा कुणइ ण बहुमन्नई भवं घोरम् । उच्चि अठि इंच सेवइ सम्वत्थ वि अपुणबन्धोत्ति इति' ॥ इतिधर्मसंग्रहे तृतीयाधिकरणे। पापमशुद्धं कर्म तत्कारणत्वाद्धिंसाद्यपि पापम् । तन्नैव तीव्रभावाद्गाढसंक्लिष्टपरिणामात् करोति । अत्यन्तोत्कटमिथ्यात्वादिक्षयोपशमेन लब्धात्मनैर्मल्यविशेषत्वात्तीव्र इति विशेषणादापन्नम् । अतीव्रभावात्करोत्यपि । तथाविधकर्मदोषात्। तथा न बहु मन्यते न बहुमानविषयीकरोति भवं संसारं घोरं रौद्रं घोरत्वावगमात् । तथोचितस्थितिमनुरूपप्रातिपत्तिम् । चशब्दः समुच्चये । सेवते-भजते कर्मलाघवात्सर्वत्रापि । आस्तामेकत्र देशकालावस्थापेक्षया समस्तेष्वपि देवातिथिमातापितृप्रभृतिषु मार्गानुसारिताभिमुखत्वेन मयूरशिशुदृष्टान्तादपुनर्बन्धकः उक्तनिर्वचनो जीव इत्येवंविधक्रियालिंगो भवतीति । अभिधानराजेन्द्रकोशे प्रथमभागे पृ. ६०७। २ बाणभट्टकृतकादम्बरी पूर्वार्ध पृ. १०३ पं. १०. ३ भानोः सूर्यस्यमे भानवीया भानवः किरणाः। ४ कौशिकलोकस्य- घूकसमुदायस्य । ५. द्वितीयद्वात्रिंशिका श्लोक १३ । ६ अनुप्तं क्षेत्रं खिलशब्देनाभिधीयते ।