________________
श्लोक ६ अन्ययोगव्यवच्छेदिका
२८ ब्रूमः। यत्तावदुक्तं परैः-क्षित्यादयो बुद्धिमत्कर्तृकाः, कार्यत्वाद् घटवदिति । तदयुक्तम्, व्याप्तेरग्रहणात् । 'साधनं हि सर्वत्र व्याप्तौ प्रमाणेन सिद्धायां साध्यं गमयेत्' इति सर्ववादिसंवादः। सँचायं जगन्ति सृजन् सशरीरोऽशरीरो वा स्यात् । सशरीरोऽपि किमस्मदादिवत् दृश्यशरीरविशिष्टः, उत पिशाचादिवददृश्यशरीराविशिष्टः । प्रथमपक्षे-प्रत्यक्षबाधः; तमन्तरेणापि च जायमाने तृणतरुपुरन्दरधनुरभ्रादौ-कार्यत्वस्य दर्शनात् प्रमेयत्वादिवत् साधारणानैकान्तिको हेतुः।
द्वितीयाविकल्पे-पुनरदृश्यशरीरत्वे तस्य माहात्म्यविशेषः कारणम्, आहोस्विदस्मदाद्यदृष्टवैगुण्यम् । प्रथमप्रकारः कोशपानप्रत्यायनीयः; तत्सिद्धौ प्रमाणाभावात्, इतरेतराश्रयदोषापत्तेश्च-सिद्धे हि माहात्म्यविशेषे तस्यादृश्यशरित्वं प्रत्येतव्यम्, तत्सिद्धौ च माहात्म्यविशेषसिद्धिारत।
द्वैतीयिकस्तु प्रकारो-न संचरत्येव विचारगोचरे; संशयानिवृत्तेः-किं तस्यासत्त्वाद् अदृश्यशरीरत्वं वान्धेयादिवत्, किंवास्मदाद्यदृष्टवैगुण्यात् पिशाचादिवदिति निश्चयाभावात् ।
अशरीरश्चेत् तदा दृष्टान्तदाान्तिकयोवैषम्यम्-घटादयो हि कार्यरूपाः सशरीरकर्तृका दृष्टाः; अशरीरस्य च सतस्तस्य कार्यप्रवृत्तौ कुतः सामर्थ्यम् ?, आकाशादिवत् । तस्मात् सशरीराशरीरलक्षणे पक्षद्वयेऽपि कार्यत्वहेतोाप्त्यसिद्धिः।
१ कोशपानप्रत्यायनीयः-शपथेन विभावनीयः। २ वन्ध्याया अपत्यं पुमान् वान्ध्येयः। वन्ध्यापत्यमित्यर्थः ।
३ 'अशरीरश्चेद्विरुद्धो हेतुः' इति क. पुस्तके पाठः । ततः परं 'वैषम्यम्' इत्येतत्पर्यन्तं क. पुस्तके न दृश्यते ।
४ अशरीरोऽपीश्वरो न भवति कन्दलीकारवचनात् । यतो गृह्णातीश्वरः शरीरं दर्शयति चान्तरा विभूतीरिति । ख. पुस्तके टिप्पनी।