________________
श्लोक ६
किञ्च, त्वन्मतेन कालात्ययापदिष्टोऽप्ययं हेतुः - धर्म्यकदेशस्य तरुविद्युद भ्रादेरिदानीमप्युत्पद्यमानस्य विधातुरनुपलभ्यमानत्वेन प्रत्यक्ष बाधितधर्म्यनन्तरं हेतुभणनात् । तदेवं न कश्चिद जगतः कर्ता । एकत्वादीनि तु जगत्कर्तृत्वव्यवस्थापनायानीयमानानि तद्विशेषणानि षण्ढं प्रति कामिन्या रूपसंपन्नरूपणप्रायाण्येव; तथापि तेषां विचारासहत्वख्यापनार्थं किञ्चिदुच्यते ।
२९
स्याद्वादमञ्जरीसहिता
"
तत्रैकत्वचर्चस्तावत्-बहूनामेककार्यकरणे वैमत्यसम्भावना इति, नायमेकान्तः — अनेककीटिकाशतनिष्पाद्यत्वेऽपि शक्रमूर्ध्नः अनेकशिल्पिकल्पितत्वेऽपि प्रासादादीनां नैकसरघोनिर्वर्तितत्वेऽपि मधुच्छत्रादीनां चैकरूपताया अविगाँनेनोपलम्भात् । अथैतेष्वप्येक एवेश्वरः कर्तेति ब्रूषे; एवं चेद् भवतो भवानीपतिं प्रति निष्पतिम वासना; तर्हि कुविन्दकुम्भकारादितिरस्कारेण पटघटादीनामपि कर्ता स एव किं न कल्प्यते ? । अथ तेषां प्रत्यक्षसिद्धं कर्तृत्वं कथमपह्नोतुं शक्यम् ? तर्हि कीटिकादिभिः किं तव विराद्धं ?, यत् तेषामसदृशतादृशप्रयाससाध्यं कर्तृत्वमेकहेलयैवापलप्यते । तस्माद् वैमत्यभयाद महोशितुरेकत्वकल्पना - भोजनादिव्ययभयात् कृपणस्यात्यन्तवल्लभपुत्रकलत्रादिपरित्यजनेन शून्यारण्यानीसेवनमिवाभासते ।
तथा सर्वगतत्वमपि तस्य नोपपन्नम् - तद्धि शरीरात्मना, ज्ञानात्मना वा स्यात् ? । प्रथमपक्षे तदीयेनैव देहेन जगत्त्रयस्य व्याप्तत्वाद्
१ शक्रमूर्ध्नः- वल्मीकस्य ।
२ संरघा - मधुमक्षिका ।
३ अनिन्दया ।
४ निरुपमा श्रद्धा ।
५ अपराद्धम् ।
६ महदरण्यमरण्यानी ।
७ ' आभासते ' इति रा. पुस्तके नास्ति ।