________________
श्लोक ६
अन्ययोगव्यवच्छेदिका इतरनिर्मेयपदार्थानामाश्रयानवकाशः। द्वितीयपक्षे तु सिद्धसाध्यता; अस्माभिरपि निरतिशयज्ञानात्मना परमपुरुषस्य जगत्त्रयक्रोडीकरणाभ्युपगमात् । यदि परमेवं भवत्प्रमाणीकृतेन वेदेन विरोधः-तत्र हि शरीरात्मना सर्वगतत्वमुक्तम्- “विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतः पाणिरुत विश्वतः पाद्" इत्यादिश्रुतेः।
यच्चोक्तं-तस्य प्रतिनियतदेशवर्तित्वे त्रिभुवनगतपदार्थानामनियतदेशवृत्तीनां यथावनिर्माणानुपपत्तिरिति । तत्रेदं पृच्छयते स जगस्त्रयं निर्मिमाणस्तक्षादिवत् साक्षाद् देहव्यापारेण निर्मिमीते, यदि वा सङ्कल्पमात्रेण ? । आये पक्षे-एकस्यैव भूभूधरादेर्विधाने अक्षोदीयसः कालक्षेपस्य सम्भवाद् बंहीयसाप्यनेहसा न परिसमाप्तिः। द्वितीयपक्षे तु सङ्कल्पमात्रेणैव कार्यकल्पनायां नियतदेशस्थायित्वेऽपि न किञ्चिद् दूषणमुत्पश्यामः । नियतदेशस्थायिनां सामान्यदेवानामपि संकल्पमात्रेणैव तत्तत्कार्यसम्पादनप्रतिपत्तेः।
किश्च तस्य सर्वगतत्वेऽङ्गीक्रियमाणे-अशुचिषु निरन्तरसन्तमसेषु नरकादिस्थानेष्वपि तस्य वृत्तिः प्रसज्ज्यते; तथा चानिष्टापत्तिः।अथ युष्मत्पक्षेऽपि यदा ज्ञानात्मना सर्व जगत्त्रयं व्यामोतीत्युच्यते, तदाशुचिरसास्वादादीनामप्युपालम्भसंभावनात् नरकादिदुःखस्वरूपसंवेदनात्मकतया दुःखानुभवप्रसङ्गाच्च, अनिष्टापत्तिस्तुल्यैवेति चेत् तदेतदुपपत्तिभिः प्रतिकर्तुमशक्तस्य धृलिभिरिवावकरणम् । यतो ज्ञानमप्राप्यकारि स्वस्थानस्थमेव विषयं परिच्छिनात्ति, न पुनस्तत्र गत्वा,
१ शुक्लयजुर्वेदमाध्यन्दिनसंहितायां सप्तदशेऽध्याये १९ मन्त्रे। २ यद्वा देहस्य सर्वगतत्वेनावकाशं विना व्यापारासंभवात्--इत्याधिक क. पुस्तके । ३ 'उचितकार्य' इति क. पुस्तके पाठः। ४ 'प्रतिपत्तिः' इति क. पुस्तके पाठः। ५ 'स्थलेष्वपि ' इति रा. पुस्तके पाठः। ६ 'अवकिरणम् ' इति क. पुस्तके पाठः।