________________
. श्लोक ६
३१
स्याद्वादमञ्जरीसहिता तत्कुतो भवदुपालम्भः समीचीनः ? नहि भवतोऽप्यशुचिज्ञानमात्रेण तद्रसास्वादाऽनुभूतिः। तद्भावे हि स्रक्चन्दनाङ्गनारसवत्यादिचिन्तनमात्रेणैव तृप्तिसिद्धौ तत्प्राप्तिप्रयत्नवैफल्यप्रसक्तिरिति । .
यत्तु ज्ञानात्मना सर्वगतत्वे सिद्धसाधनं प्रागुक्तम्। तच्छक्तिमात्रमपेक्ष्य मन्तव्यम् । तथा च वक्तारो भवन्ति- अस्य मतिः सर्वशास्त्रेषु प्रसरति इति । न च ज्ञानं प्राप्यकारिः तस्यात्मधर्मत्वेन बहिनिर्गमाभावात् । बहिर्निर्गमे चात्मनोऽचैतन्यापत्त्या अजीवत्वप्रसङ्गः । न हि धर्मो धर्मिणमातरिच्य क्वचन केवलो विलोकितः । यच्च परे दृष्टान्तयन्ति- यथा सूर्यस्य किरणा गुणरूपा आप सूर्याद निष्क्रम्य भुवनं भासयन्ति, एवं ज्ञानमप्यात्मनः सकाशाद बहिर्निर्गत्य प्रमेयं परिच्छिनत्तीति। तत्रेदमुत्तरम्-किरणानां गुणत्वमासिद्धम् तेषां तैजसपुद्गलमयत्वेन द्रव्यत्वात् । यश्च तेषां प्रकाशात्मा गुणः, स तेभ्यो न जातु पृथग्भवतीति। तथा च धर्मसङ्ग्रहण्यां श्रीहरिभद्राचा
पादाःकिरणां गुणा न व्वं, तेसि पगासो गुणो, णयादवी। जं नाणं आयगुणो कहमदव्वो स अन्नत्थ? ॥ ३७०॥ गन्तुंण परिच्छिन्दइ नाणं णेयं तयम्मि देसम्मि। आयत्थं चिय, नवरं अचिंतसत्ती उ विन्नेयं ॥ ३७१॥ लोहोवलस्स सत्ती आयत्था चेव भिन्नदेसंपि । लोहं आगरिसंती दीसह कजपचक्खा ॥ ३७२ ॥ एवमिह नाणसत्ती आयत्था चेव हंदि लोगंतं । जइ परिच्छिदइ सम्म को णु विरोहो भवे एत्थं ॥३७३॥ इत्यादि। १ 'एव' इत्याधिकं क. पुस्तके ।। २ अत्र मलयगिरीयवृत्तिः-"अधुना प्रकारान्तरेण परो दृष्टान्तदाष्टन्तिकयोवैषम्यमा