________________
श्लोक ६ अन्ययोगव्यवच्छोदका
- ३२ अथ सर्वगः सर्वज्ञ इति व्याख्यातम् । तत्रापि प्रतिविधीयतेननु तस्य सार्वयं केन प्रमाणेन गृहीतम् ?, प्रत्यक्षेण, परोक्षेण वा। न तावत् प्रत्यक्षेणः तस्येन्द्रियार्थसन्निकर्षोत्पन्नतयातीन्द्रियग्रहणासामर्थ्यात् । नापि परोक्षण; तद्धि अनुमानं, शाब्दं वा स्यात् ? न तावदनुमानम् । तस्य लिगिलिङ्गसम्बन्धस्मरणपूर्वकत्वात्'; न च तस्य सर्वज्ञत्वेऽनुमेये किश्चिदव्यभिचारि लिङ्गं पश्यामः; तस्यात्यन्तविप्रकृष्टत्वेन तत्प्रतिबद्धलिङ्गसम्बन्धग्रहणाभावात् । . _____ अथ तस्य सर्वज्ञत्वं विना जगद्वैचित्र्यमनुफ्पद्यमानं-सर्वज्ञत्वमर्थादापादयतीति चेत् । न । आविनाभावाभावात्- न हि जगद्वैचित्री तत्सार्वज्यं विनान्यथा नोपपन्ना । द्विविधं हि जगत-स्थावरजङह-ननु किरणा गुणा न भवन्ति किन्तु द्रव्यं यस्तु तेषां किरणानां प्रकाशः स गुणो, न चासौ प्रकाशरूपो गुणोऽद्रव्यो द्रव्यदेशादन्यत्र वर्तते, ज्ञानं पुनरिदं यत् यस्मादात्मगुणस्ततः स कथमद्रव्यो द्रव्यरहितः सन् अन्यत्र आत्मदेशपरित्यागेन भवेत् ? , नैव भवेदिति भावः । तस्माल्लोकान्ते ज्ञानदर्शनादयमात्मा सर्वव्यापी प्रतीयत एव ॥ ३७० ॥ ___ तदेवं चिरादवबुध्यमानेन परेणाभिहिते सत्याचार्यः सम्यगुत्तरमाह-न ज्ञानं यस्मिन्देशे ज्ञेयमस्ति तस्मिन्देशे गत्वा ज्ञेयं परिच्छिनत्ति, नवरं किन्तु आत्मस्थमेव सत् तत् दूरदेशस्थस्यापि ज्ञेयस्य परिच्छेदकमचिन्त्यशक्तेर्विज्ञेयम् ॥ ३७१ ॥
अमुमेवार्थ दृष्टान्तन भावयतिलोहस्याकर्षक उपलः लोहोपलः । अत्राकृष्याकर्षकभावलक्षणसम्बन्धे षष्ठी। यथा राज्ञः पुरुष इत्यत्र पोष्यपोषकभावे । तस्य शक्तिरात्मस्थैव सती भिन्नदेशमपि भिन्नस्थ (लस्थ) मपि लोहमाकृषन्ती दृश्यते, 'न च दृष्टेऽनुपपन्नं नाम' । अतीन्द्रियत्वाच्छक्तीनां कथं तस्या दर्शनर्मिति चेत् । अत आह । कार्यप्रत्यक्षा कार्य लोहाकर्षणलक्षणं प्रत्यक्षं यस्याः सा कार्यप्रत्यक्षा । एतदुक्तं भवति तत्कार्यस्य प्रत्यक्षत्वात् सापि दृश्यत इति व्यवह्रियत इत्यदोषः ॥ ३७२ ॥ तदेवं दृष्टान्तमभिधाय दाष्टान्तिके योजनामाह- .
एवं लोहोपलशक्तिरिव " इह" जगति 'हंदीति' परामन्त्रणे, यदि ज्ञानरूपा । शक्तिरात्मस्थैव सती सम्यक् लोकान्तं परिच्छिनत्ति ततः को नु अत्र विरोधो भवेत् ?, नैव कश्चिदिति भावः ॥३७३॥” इति धर्मसंग्रहण्याम् ।
१ 'अतीन्द्रियार्थ' च, पुस्तके पाठः।