________________
स्याद्वादमञ्जरीसहिता
श्लोक ६ मभेदात् । तत्र जगमानां वैचित्र्यं-स्वोपात्तशुभाशुभकर्मपरिपाकवशेनैव । स्थावराणां तु सचेतनानामियमेव गतिः । अचेतनानां तु तदुपभोगयोग्यतासाधनत्वेनानादिकालसिद्धमेव वैचित्र्यमिति।
नाप्यागमस्तत्साधकः, स हि-तत्कृतोऽन्यकृतो वा स्यात् ? । तत्कृत एव चेत् तस्य सर्वज्ञतां साधयति- तदा तस्य महत्त्वक्षतिःस्वयमेव स्वगुणोत्कीर्तनस्य महतामनधिकृतत्वात् । अन्यच्च, तस्य शास्त्रकर्तृत्वमेव न युज्यते; शास्त्रं हि वर्णात्मकम् ते च ताल्वादिव्यापारजन्याः; स च शरीरे एव सम्भवी; शरीराभ्युपगमे च तस्य पूर्वोक्ता एव दोषाः। अन्यकृतश्चेत् सोऽन्यः सर्वज्ञोऽसर्वज्ञो वा ?। सर्वज्ञत्वे-तस्य द्वैतापत्त्या प्रागुक्ततदेकत्वाभ्युपगमबाधः; तत्साधकप्रमाणचर्यायामनवस्थापातश्च । असर्वज्ञश्वेत–कस्तस्य वचास विश्वासः ।
अपरं च भवदभीष्ट आगमः. प्रत्युत तत्प्रणेतुरसर्वज्ञत्वमेव साधयति; पूर्वापरविरुद्धार्थवचनोपेतत्वात् । तथाहि-'नं हिंस्यात् सर्वभूतानि ' इति प्रथममुक्त्वा , पश्चात् तत्रैव पठितम्"षट्शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि ।
अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः।" ___तथा "अग्नीषोमीयं पशुमालभेत""सप्तदश प्राजापत्यान् पशूनालभेत" इत्यादि वचनानि कथमिव न पूर्वापरविरोधमनुरुध्यन्ते । तथा-"नानृतं ब्रूयात् " इत्यादिनाऽनृतभाषणं
१ 'पाताश्च' इति क. घ. पुस्तकयोः पाठः । २ छां. ८ अ.। ३ ऐ. अ. ६-३। . ४ तै. सं. अ. १ अ. ४