________________
३४
श्लोक ६
अन्ययोगव्यवच्छेदिका प्रथमं निषिध्य पश्चात् "ब्राह्मणार्थेऽनृतं ब्रूयात्" इत्यादि । तथा"न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले। प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि" ॥१॥
तथा “परद्रव्याणि लोष्टवत्" इत्यादिना अदत्तदानमनेकधा निरस्य, पश्चादुक्तम्-"यद्यपि ब्राह्मणो हठेन परकीयमादत्ते, छलेन वा, तथापि तस्य नादत्तादानम्; यतः सर्वमिदं ब्राह्मणेभ्यो दत्तम्; ब्राह्मणानां तु दौर्बल्याद् वृषलाः परिभुज्यन्ते; तस्मापहरन् ब्राह्मणः स्वमादत्ते, स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते, स्वं ददाति" इति । तथा" अपुत्रस्य गतिर्नास्ति ” इति लपित्वा,
"अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।। दिवंगतानि विप्राणामकृत्वा कुलसन्ततिम्"॥१॥ इत्यादि
कियन्तो वा दधिमाषभोजनात् कृपणा विवेच्यन्ते; तदेवमागमोऽपि न तस्य सर्वज्ञतां वक्ति । किञ्च सर्वज्ञः सन्नसौ चराचरं चेद् विरचयति, तदा जगदुपप्लवकरणवैरिणः पश्चादपि कर्तव्यनिग्रहान् सुरवैरिणः, एतदधिक्षेपकारिणश्चास्मदादीन् किमर्थं सृजाति इति तन्नायं सर्वज्ञः।
तथा स्ववशत्वं-स्वातन्त्र्यं; तदपि तस्य न क्षोदक्षमम्-स हि यदि नाम स्वाधीनः सन् विश्वं विधत्ते, परमकारुणिकश्च त्वया वर्ण्यते, तत् कथं सुखितदुःखिताद्यवस्थाभेदवृन्दस्थपुटितं घटयति भुवनम् १ " उद्वाहकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे ।
विप्रस्य चार्थे ह्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि ॥ ३६॥"
वसिष्ठधर्मसूत्रम् अ. १६ सू. ३६ । २ अत्र धर्ममिति पदमध्याहृत्य हिनस्तीति क्रियापदेन तस्य संबन्धः कर्तव्यः । ३ मनुस्मृतौ अ. १ श्लो. १०१ इत्यत्राल्पांशेनैतत्समम् । .