________________
३५
श्लोक ६
स्याद्वादमञ्जरीसहिता एकान्तशर्मसंपत्कान्तमेव तु किं न निर्मिमीते ?) अथ जन्मान्तरोपार्जिततत्तत्तदीयशुभाशुभकर्मप्रेरितः सन् तथा करोतीति दत्तस्तर्हि स्ववर्शत्वाय जलाञ्जलिः।
कर्मजन्ये च त्रिभुवनवैचित्र्ये शिपिविष्टहतुकविष्टपैसृष्टिकल्पनायाः कष्टैकफलत्वात्-अस्मन्मतमेवाङ्गीकृतं प्रेक्षावता। तथा चायातोऽयं " घट्टॉट्यां प्रभातम्" इति न्यायः। किञ्च, प्राणिनां धर्माधर्मावपेक्षमाणश्चेदयं सृजति, प्राप्तं तर्हि यदयमपेक्षते–तन्न करोतीति । न हि कुलालो दण्डादि करोति । एवं कर्मापेक्षश्वेदीश्वरो जगत्कारणं स्यात् तर्हि-कर्मणीश्वरत्वम्, ईश्वरोऽनीश्वरः स्यादिति । __तथा नित्यत्वमपि तस्य स्वगृह एव प्रणिगद्यमानं हृद्यम्,। स खलु नित्यत्वेनैकरूपः सन् , त्रिभुवनसर्गस्वभावोऽतत्स्वभावो वा? प्रथमविधायां जगन्निर्माणात् कदाचिदपि नोपरमेत; तदुपरमे तत्स्वभावत्वहानिः । एवं च सर्गक्रियाया अपर्यवसानाद्-एकस्यापि कार्यस्य न सृष्टिः । घटो हि स्वारम्भक्षणादारभ्य परिसमाप्रुपान्त्यक्षणं यावद् निश्चयनयाभिप्रायेण न घटव्यपदेशमासादयात; जलाहरणाद्यर्थक्रियायामसाधकतमत्वात् ।
. अतत्स्वभावपक्षे तु-न जातु जगन्ति सृजेत् तत्स्वभावायोगाद, गगनवत् । अपि च तस्यैकान्तनित्यस्वरूपत्वे सृष्टिवत् संहारोऽ
१ स्ववशत्वं नष्टमित्यर्थः । २. शिपिविष्टः-महेश्वरः । स्याद्योमकेशः शिपिविष्टभैरवौ' । इत्यभिधानचिन्तामणौ द्वितीयकाण्डे श्लो. ११२ । . ३ विष्टपं-विश्वं 'स्याल्लोको विष्टपं विश्वम्' इत्यभिधानचिन्तामणौ षष्ठकाण्डे श्लो. १॥ ___४ उद्देश्यासिद्धिर्यत्र प्रतीयते तत्रायं न्याय उपयुज्यते । न्यायार्थः-कश्चित् शाकटिको मध्येमार्ग राजदेयं द्रव्यं दातुमनिच्छन्मार्गान्तरं समासादयति परं रात्रौ भ्रष्टमार्गः प्रभाते राजग्राह्यद्रव्यग्राहिकुटीसविधावेवागच्छति । तेन तदुद्देश्यं न सिध्यतीति ।
५ विचारासहमित्यर्थः। ..६ 'स्वारम्भण' इति क. पुस्तके पाठः ।