________________
श्लोक ६ अन्ययोगव्यवच्छेदिका
३६ पि न घटते । नानारूपकार्यकरणेऽनित्यत्वापत्तेः । स हि येनैव स्वभावेन जगन्ति सृजेत् तेनैव तानि संहरेत्, स्वभावान्तरेण वा । तेनैव चेत्, सृष्टिसंहारयोयौगपद्यप्रसङ्गः, स्वभावाभेदात् एकस्वभावात् कारणादनेकस्वभावकार्योत्पत्तिविरोधात् । स्वभावान्तरण चेद् नित्यत्वहानिः-स्वभावभेद एव हि लक्षणमनित्यतायाः। यथा पार्थिवशरीरस्याहारपरमाणुसहकृतस्य प्रत्यहमपूर्वापूर्वोत्पादेन स्वभावभेदादनित्यत्वम् । इष्टश्च भवतां सृष्टिसंहारयोः शम्भौ स्वभावभेदः-रजोगुणात्मकतया सृष्टौ, तमोगुणात्मकतया संहरणे, सात्त्विकतया च स्थिती, तस्य व्यापारस्वीकारात् । एवं चावस्थाभेदः, तद्भेदे चावस्थावतोऽपि भेदाद् नित्यत्वक्षतिः। .. ___ अथास्तु नित्यः, तथापि कथं सततमेव सृष्टौ न चेष्टते ?। इच्छावशात् चेत्, ननु ता अपीच्छाः स्वसत्तामात्रनिबन्धनात्मलाभाः सदैव किं न प्रवर्तयन्तीति स एवोपालम्भः । तथा शम्भोरष्टगुणाधिकरणत्वे, कार्यभेदानुमेयानां तदिच्छानामपि विषमरूपत्वाद नित्यत्वहानिः केन वार्यते ? इति। ।
किञ्च, प्रेक्षावतां प्रवृत्तिः स्वार्थकारुण्याभ्यां व्याप्ता; ततश्चायं जगत्सर्गे व्याप्रियते-स्वार्थात्, कारुण्याद् वा ?। न तावत् स्वार्थात् तस्य कृतकृत्यत्वात् । न च कारुण्यात; परदुःखप्रहाणेच्छा हि कारुण्यम् । ततः प्राक् सर्गाज्जीवानामिन्द्रियशरीरविषयानुत्पत्तौ दुःखाभावेन कस्य प्रहाणेच्छा कारुण्यम् । सर्गोत्तरकाले तु दुःखिनोऽवलोक्य कारुण्याभ्युपगमे दुरुत्तरमितरेतराश्रयम्-कारुण्येन सृष्टिः सृष्टया च कारुण्यम् इति नास्य जगत्कर्तृत्वं कथमाप सिद्धयति। १ 'सः' इत्यधिक रा. पुस्तके । २ 'सततसृष्टौ' इति क. पुस्तके पाठः। ३ 'चेत्' इति क. पुस्तके नास्ति । ४ बुद्धीच्छाप्रयत्नसंख्यापरिमाणपृथक्त्वसंयोगविभागाख्या अष्टौ गुणाः ।