________________
स्याद्वादमञ्जरीसहिता
श्लोक ७ तदेवमेवंविधदोषकलुषिते पुरुषविशेषे यस्तेषां सेवाहेवाकःस खलु केवलं बलवन्मोहविडम्बनापरिपाक इति। अत्र च यद्यपि मध्यवर्तिनो नकारस्य घण्टालालान्यायेन योजनादर्थान्तरमपि स्फुरति-यथा इमाः कुहेवाकविडम्बनास्तेषां न स्युर्येषां त्वमनुशासकः इति; तथापि सोऽर्थः सहृदयैर्न हृदये धारणीयः; अन्ययोगव्यवच्छेदस्याधिकृतत्वात् । इति काव्यार्थः ॥ ६॥ __अथ चैतन्यादयो रूपादयश्च धर्मा आत्मादेर्घटादेश्च धर्मिणोऽत्यन्तं व्यतिरिक्ता आप समवायसम्बन्धेन संबद्धाः सन्तो धर्मधर्मिव्यपदेशमश्नुवते, इति तन्मतं दृषयन्नाह
न धर्मधर्मित्वमतीवभेदे
वृत्त्याऽस्ति चेद् न त्रितयं चकास्ति। इहेदमित्यस्ति मतिश्च वृत्तौ, . न गौणभेदोऽपि.च लोकबाधः॥७॥
धर्मधार्मणोरतीवभेदे-अतीवेत्यत्र--इवशब्दो वाक्यालंकारे तं चप्रायोऽतिशब्दात,किंवृत्तेश्च प्रयुञ्जते शाब्दिकाः यथा--"आवर्जिता किञ्चिदिव स्तनाभ्याम्" "उद्वृत्तः क इह सुखावहः परे ।
१ 'केवलं' इति क. पुस्तके नास्ति । २ मध्यमणिन्यायः, देहलीदीपकन्यायस्तद्वदेवायं घण्टालालान्याय उपयुज्यते ।
३ उत्पन्न द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठतीति समयात् गुणानां गुणिनो व्यतिरिक्तत्वम् ।
४ 'अयुतसिद्धानामाधार्याधारभूतानां यः संबन्ध इहप्रत्ययहेतुः स समवायः' इति प्रशस्तपादभाष्ये समवायप्रकरणे । ५ इति पदं रा. पुस्तके नास्ति । ६ कुमारसम्भवमहाकाव्ये तृतीयसर्गे श्लो. ५४ । ७ शिशुपालवधमहाकाव्ये ।