________________
श्लोक ७
अन्ययोगव्यवच्छेदिका
षाम् ' " इत्यादि । ततश्च धर्मधर्मिणोः अतीव भेदे - एकान्तभिन्नत्वेङ्गीक्रियमाणे, स्वभावहाने धर्मधर्मित्वं न स्यात् - अस्य धर्मिण इमे धर्माः येषां च धर्माणामयमाश्रयभूतो धर्मी इत्येवं सर्वप्रसिद्धो धर्मधर्मिव्यपदेशो न प्राप्नोति । तयोरत्यन्तभिन्नत्वेऽपि तत्कल्पनायांपदार्थान्तर धर्माणामपि विवक्षितधर्मधर्मित्वापत्तेः ।
३८
एवमुक्ते सति परः प्रत्यवतिष्ठते - वृत्त्यास्तीति - अयुतसिद्धानामाधार्याधारभूतानामिहप्रत्यय हेतुः सम्बन्धः समवायः स च समवयनात् समवाय इति द्रव्यगुणकर्मसामान्यविशेषेषु पञ्चसु पदार्थेषु वर्तनाद् वृत्तिरिति चाख्यायते । तया वृत्त्या समवायसम्बन्धेन तयोर्धर्मधर्मिणोः - इतरेतरविनिलुण्ठितत्वेऽपि धर्मधर्मिन्यपदेश इष्यते इति नानन्तरोक्तो दोष इति ।
अत्राचार्यः समाधत्ते - चेदिति यद्येवं तव मतिः-सा प्रत्यक्षप्रतिक्षिप्ता, यतो न त्रितयं चकास्ति ।
अयं धर्मी, इमे चास्य धर्माः अयं चैतत्सम्बन्धनिबन्धनं समवाय इत्येतत् त्रितयं वस्तुत्रयं न चकास्ति - ज्ञानविषयतया न प्रतिभासते । यथा किल शिलाशकलयुगलस्य मिथोऽनुसन्धायक रालादिद्रव्यं तस्मात् पृथक् तृतीयतया प्रतिभासते; नैवमत्र समवायस्यापि प्रतिभानंम्, किन्तु द्वयोरेव धर्मधर्मिणोः इति शपथप्रत्यायनीयोऽयं समवाय इति भावार्थः ।
-
किञ्च, अयं तेन वादिना एको, नित्यः, सर्वव्यापकः अमूर्तश्च परिकल्प्यते । ततो यथा घटाश्रिताः पाकजरूपादयो धर्माः समवायसम्बन्धेन घंटे समवेताः तथा किं न पटेऽपि ?; तस्यैकत्वनित्यत्वव्यापकत्वैः सर्वत्र तुल्यत्वात् ।
३ 'धर्मधर्मिणोरतीवभेदे' इति तथाग्रे 'स्वभावह। ने:' इति रा. पुस्तके नास्ति । ४ 'प्रतिभासनम्' इति क, पुस्तके पाठः ।