________________
स्याद्वादमञ्जरीसहिता
श्लोक ७ यथाकाश एको, नित्यो, व्यापकः, अमूर्तश्च सन्-सर्वैः सम्बन्धिभिर्युगपदविशेषेण सम्बध्यते, तथा किं नायमपीति ?। विनश्यदेकवस्तुसमवायाभावे च समस्तवस्तुसमवायाऽभावः प्रसज्ज्यते । तत्तदवच्छेदकभेदाद् नायं दोष इति चेत् , एवमनित्यत्वापत्तिः; प्रतिवस्तुस्वभावभेदादिति।
अथ कथं समवायस्य न ज्ञाने प्रतिभानम् । यतस्तस्येहेतिप्रत्ययः सावधानं साधनम् इह प्रत्ययश्चानुभवसिद्ध एव । इह तन्तुपु पटः, इहात्मनि ज्ञानम्, इह घटे रूपादय इति प्रतीतेरुपलम्भात् । अस्य च प्रत्ययस्य केवलधर्मधर्म्यनालम्बनत्वादस्ति समवायाख्यं पदार्थान्तरं तद्धेतुः; इति पराशङ्कामभिसन्धाय पुनराह-इहेदमित्यस्ति मतिश्च वृत्ताविति-इहेदमिति-इहेदमिति आश्रयाश्रयिभावहतुक इहप्रत्ययो वृत्तावप्यस्ति-समवायसंबन्धेऽपि विद्यते। चशब्दोऽपिशब्दार्थः तस्य च व्यवहितः; सम्बन्धः, तथैव च व्याख्यातम् । __ इदमत्र हृदयम्-यथा त्वन्मते पृथिवीत्वाभिसंबन्धात् पृथिवी, तत्र पृथिवीत्वं पृथिव्या एव स्वरूपमस्तित्वाख्यं नापरं वस्त्वन्तरम् । तेन स्वरूपेणैव समं योऽसावभिसम्बन्धः पृथिव्याः स एव समवाय इत्युच्यते; "प्राप्तानामेव प्राप्तिःसमवायः" इति वचनात् । एवं समवायत्वाभिंसम्बन्धात् समवाय इत्यपि किंन कल्प्यते ? ; यतस्तस्यापि यत् समवायत्वं स्वस्वरूपं, तेन साध सम्बन्धोऽस्त्येव, अन्यथा निःस्वभावत्वात् शशविषाणवदवस्तुत्वमेव भवेत् । ततश्च इह समवाये समवायत्वम् इत्युल्लेखेन इहप्रत्ययः समवायेऽपि युक्तया घटत एव ततो यथा पृथिव्यां पृथिवीत्वं समवायेन समवेतं, एवं समवायेऽपि १ 'न' इति क. पुस्तके पाठः । २ 'वस्त्वन्तरम्' इति ख, पुस्तके नास्ति ।
३ ' यतो यथा' इति घ. पुस्तके पाठः। .४ ' समवायेऽपि समवायत्वमेवम् ' इति रा. पुस्तके पाठः ।