________________
श्लोक ७
अन्ययोगव्यवच्छेदिका समवायत्वं समवायान्तरण सम्बन्धनीयम् तदप्यपरेण, इत्येवं दुस्तरानवस्थामहानदी।
___ एवं समवायस्यापि समवायत्वाभिसम्बन्धे युक्तया उपपादिते, साहसिक्यमालम्ब्य पुनः पूर्वपक्षवादी वदति-ननु पृथिव्यादीनां पृथिवीत्वाद्यभिसम्बन्धनिबन्धनं समवायो मुख्यः, तत्र त्वतलादिप्रत्ययाभिव्यङ्ग्यस्य सङ्ग्रहीतसकलावान्तरजातिलक्षणव्यक्तिभेदस्य सामान्यस्योद्भवात् । इह तु समवायस्यैकत्वेन व्यक्तिभेदाभावे जातेरनुद्भूतत्वाद् गौणोऽयं युष्मत्परिकल्पित. इहेतिप्रत्ययसाध्यः समवायत्वाभिसम्बन्धः, तत्साध्यश्च समवाय इति ।
तदेतद् न विपश्चिचमत्कारकारणम् यतोऽत्रापि जातिरुद्भवन्ती केन निरुध्यते ? । व्यक्तेरभेदेनेति चेत्। न । तत्तदवच्छेदकवशात् तद्भेदोपपत्ती व्यक्तिभेदकल्पनाया दुर्निवारत्वात् । अन्यो घटसमवायोऽन्यश्च पटसमवाय इति व्यक्त एव समवायस्यापि व्यक्तिभेद इति; तत्सिद्धौ सिद्ध एव जात्युद्भवः। तस्मादन्यत्रापि मुख्य एव समवायः; इहप्रत्ययस्योभयत्राप्यव्यभिचारात् ।
तदेतत्सकलं सपूर्वपक्षं समाधानं मनसि निधाय सिद्धान्तवादी प्राह न गौणभेद इति-गौण इति योऽयं भेदः-स नास्ति; गौणलक्षणाभावात् । तल्लक्षणं चेत्थमाचक्षते" अव्यभिचारी मुख्योऽविकलोऽसाधारणोऽन्तरङ्गश्च । विपरीतो गौणोऽर्थः सति मुख्य धीः कथं गौणे?॥१॥"
. तस्माद् धर्मधर्मिणोः सम्बन्धने मुख्यः समवायः, समवाये च समवायत्वाभिसम्बन्धे गौण इत्ययं भेदो नानात्वं नास्तीति भावार्थः।
१ 'अपि' इति क. पुस्तके नास्ति । २ 'विपश्चिचेत' । इति ह, रा. पुस्तकयोः पाठः।
३ 'ध्यक्तेरभेदस्तुल्यत्वं संकरोऽथानवस्थितिः । रूपहानिरसम्बन्धी जातिबाधकसंग्रहः'। इति किरणावल्यामुदयनाचार्यकृतायाम् ।