________________
स्याद्वादमञ्जरीसहिता
श्लोक ८. किञ्च योऽयमिह तन्तुषु पट इत्यादिप्रत्ययात् समवायसाधनमनोरथः- स खल्वनुहरते नपुंसकादपत्यप्रसवमनोरथम् इह तन्तुषु पट इत्यादेर्व्यवहारस्यालौकिकत्वात्, पांशुलंपादानामाप. इह पटे तन्तव इत्येव प्रतीतिदर्शनात्; इह भूतले घटाभाव इत्यत्रापि समवायप्रसङ्गात् । - अत एवाह-अपि च लोकबाध इति--अपि चेति--दृषणाभ्युच्चये, लोकः-प्रामाणिकलोकः, सामान्यलोकश्चः तेन बाधो-विराधः, लोकबाध; तदप्रतीतव्यवहारसाधनात; बाधशब्दस्य “ईहाद्याः प्रत्ययभेदतः" इति पुंस्त्रीलिङ्गता । तस्माद्धर्मधर्मिणोरविष्वग्भावलक्षण एव सम्बन्धः प्रतिपत्तव्यो नान्यः समवायादिः । इति काव्यार्थः ॥७॥
अथ सत्ताभिधानं पदार्थान्तरम्, आत्मनश्च व्यतिरिक्तं ज्ञानाख्यं गुणम्, आत्मविशेषगुणोच्छेदस्वरूपां च मुक्तिम्, अज्ञानाद्गीकृतवतः परानुपहसन्नाह
सतामपि स्यात् कचिदेव सत्ता
चैतन्यमौपाधिकमात्मनोऽन्यत् । .... न संविदानन्दमयी च मुक्तिः
- सुसूत्रमासूत्रितमत्वदीयैः ॥८॥ ___ वैशेषिकाणां द्रव्यगुणकर्मसामान्यविशेषसमवायाख्याः षट् पदार्थास्तत्त्वतयाभिप्रेताः तत्र " पृथिव्यापस्तेजो वायुराकाशः
१ अनुहरते-अनुकरोति । २ पांशुलपादाः-धूलिधूसरपादा अचिरादेवागताः । अप्रकरणशा इत्यर्थः । ३ हैमलिङ्गानुशासने पुंस्त्रीलिङ्गप्रकरणे श्लो. ५ । ४ वैशेषिकदर्शनस्य प्रथमाध्यायस्य प्रथमाह्निके सूत्र ५ ।