________________
श्लोक ८ अन्ययोगव्यवच्छेदिका
___४२ कालो दिगात्मा मन" इति नव द्रव्याणि । गुणाश्चतुर्विंशतिः; तद्यथा-" रूपरंसगन्धस्पर्शसंख्यापरिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धिः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च" इति मूत्रोक्ताः सप्तदश । चशब्दसमुचिताश्च सप्त-- द्रवत्वं, गुरुत्वं, संस्कारः, स्नेहो, धर्माधर्मी, शब्दश्च, । इत्येवं चतुविंशतिर्गुणाः । संस्कारस्य वेगभावनास्थितिस्थापकभेदाद् त्रैविध्येऽपि-संस्कारत्वजात्यपेक्षया एकत्वात्, शौर्यौदार्यादीनां चात्रैवान्तर्भावाद् नाधिक्यम् । कर्माणि पञ्च, तद्यथा-उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति । गमनग्रहणाद्-भ्रमणरेचनस्यन्दनाद्यविरोधः।
अत्यन्तव्यावृत्तानां पिण्डानां यतः कारणाद-अन्योऽन्यस्वरूपानुगमः प्रतीयते, तदनुवृत्तिप्रत्ययहेतुः सामान्यम् । तच्च द्विविधंपरमपरं च । तत्र परं--सत्ता, भावो, महासामान्यामिति चोच्यते; द्रव्यत्वाद्यवान्तरसामान्यापेक्षया महाविषयत्वात् । अपरसामान्यं च द्रव्यत्वादि । एतच्च सामान्यविशेष इत्यपि व्यपदिश्यते; तथाहि-द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यम् ; गुणकर्मभ्यो व्यावृत्तत्वाद् विशेषः । ततः कर्मधारये सामान्यविशेष इति । एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिकमपरं, तदपेक्षया घटत्वादिकम् । एवं चतुर्विंशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यम् ; द्रव्यकर्मभ्यो व्यावृत्तेश्च विशेषः। एवं गुणत्वापेक्षया रूपत्वादिकं, तदपेक्षया नीलत्वादिकम् , एवं पञ्चसु १ वैशेषिकदर्शनस्य प्रथमाध्याये प्रथमाह्निके सूत्र ६ ( किंचित्पाठभेदः)
१ प्रशस्तपादभाष्ये उद्देशप्रकरणे । - ३ ऊर्ध्वदेशसंयोगकारणं कर्मोत्क्षेपणम् । अधोदेशसंयोगकारणं कर्मापक्षेपणम् । वक्रत्वापादकं कर्माकुञ्चनम् । ऋजुत्वापादकं कर्म प्रसारणम् अनियतदेशसंयोगकारणं कर्म गमनम् । प्रशस्तपादभाष्ये उद्देशप्रकरणे ।
४ ' द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते ' । कारिकावली प्रत्यक्षखण्डे का. ८ ।