________________
४३
स्याद्वादमञ्जरीसहिता
श्लोक ८
कर्मसु . वर्तमानत्वात् कर्मत्वं सामान्यम् ; द्रव्यगुणेभ्यां व्यावृत्तत्वाद् विशेषः । एवं कर्मश्वापेक्षया उत्क्षेपणत्वादिकं ज्ञेयम् ।
1
तत्र सत्ता - द्रव्यगुणकर्मभ्योऽर्थान्तरं कया युक्तया ?, इति चेद् उच्यते । न द्रव्यं-सत्ता, द्रव्यादन्येत्यर्थः ; एकद्रव्यवत्त्वाद् - एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः, द्रव्यत्ववत् - यथा द्रव्यत्वं - नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति, किन्तु सामान्यविशेषलक्षणं द्रव्यत्वमेव एवं सत्तापि । वैशेषिकाणां हि अद्रव्यं वा द्रव्यम्, अनेकद्रव्यं वा द्रव्यम् । तत्राद्रव्यं द्रव्यं आकाशः, कालो, दिगात्मा, मनः, परमाणवः ; अनेकद्रव्यं तु व्यणुकादिस्कन्धाः ; एकद्रव्यं तु द्रव्यमेव न भवति; एकद्रव्यवतीं च सत्ता, इति द्रव्यलक्षणविलक्षणत्वाद न द्रव्यम् । एवं न गुणः - सत्ता; गुणेषु भावाद्, गुणत्ववत् । यदि हि सत्ता गुणः स्याद् न तर्हि गुणेषु वर्तेत; निर्गुणत्वाद् गुणानाम्; वर्तते चगुणेषु सत्ता; सन् गुण इति प्रतीतेः । तथा न सत्ता - कर्मः कर्मसु भावात्, कर्मत्ववत् । यदि च सत्ता कर्म स्याद् न तर्हि कर्मसु वर्तेत; निष्कर्मत्वात् कर्मणाम् ; वर्तते च कर्मसु भावः । सत् कर्मेति प्रतीतेः; तस्मात् पदार्थान्तरं सत्ता ।
I
•
तथा विशेषाः - नित्यद्रव्यवृत्तयः, अन्त्याः - अत्यन्तव्यावृत्ति हेतवः, ते द्रव्यादिवैलक्षण्यात् पदार्थान्तरम् । तथा च प्रशस्तकरः“अन्त्येषु भवा अन्त्याः; स्वाश्रयविशेषकत्वाद् विशेषाः । विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनस्सु - प्रतिद्रव्यमेकैकशो वर्तमाना अत्यन्तव्यावृत्ति
-
१' वर्तनात् ' इति ह. रा. पुस्तकयोः पाठः ।
२ द्रव्यं द्विधा । अद्रव्यमनेकद्रव्यं च । न विद्यते द्रव्यं जन्यतया जनकतया च यस्य तदद्रव्यं द्रव्यम् । यथाकाशकालादि । अनेकं द्रव्यं जन्यतया च जनकतया च यस्य तदनेकद्रव्यं द्रव्यम् । इति ख. पुस्तक टिप्पन्याम् |
३ विशेषप्रकरणे प्रशस्तपादभाष्ये पृ. १६८ ।