________________
श्लोक ८
अन्ययोगव्यवच्छेदिका बुद्धिहेतवः । यथास्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिगुणक्रियावयवोपचयावयवसंयोगनिमित्ता प्रत्ययव्यावृतिर्दृष्टा-गौः शुक्लः शीघ्रगतिः पीनः ककुद्मान् महाघण्ट इति; तथाऽस्मद्विशिष्टानां योगिनां-नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु, मुक्तात्ममनस्सु चान्यनिमित्तासम्भवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमितिप्रत्ययव्यावृत्तिः, देशकालविप्रकृष्टे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति, तेऽन्त्या विशेषाः" इति । अमी च विशेषरूपा एव, न तु द्रव्यत्वादिवत् सामान्यविशेषोभयरूपाः; व्यावृत्तेरेव हेतुत्वात् ।
तथा अयुतसिद्धानामाधार्याधारभूवानामिहप्रत्ययहेतुः सम्बन्धः समवाय इति । अयुतसिद्धयोः परस्परपरिहारण पृथगाश्रयानाश्रितयोराश्रयाश्रयिभावः इह तन्तुषु पटः इत्यादेः प्रत्ययस्यासाधारणं कारणं समवायः । यद्वशात् . स्वकारणसामर्थ्यादुपजायमानं पटाद्याधार्य तत्त्वाद्याधारे सम्बध्यते; यथा छिदिक्रिया छेद्येनेति; सोऽपि द्रव्यादिलक्षणवैधात् पदार्थान्तरमिति षट् पदार्थाः।
साम्पतमक्षरार्थो व्याक्रियते सतामपीत्यादि सतामपि-सद्भुद्धिवेद्यतया साधारणानामपि, षण्णां पदार्थानां मध्ये कचिदेवकेषुचिदेव पदार्थेषुः सत्ता-सामान्ययोगः, स्याद्-भवेत्, न सर्वेषु । तेषामेषा वाचोयुक्तिः–सदिति, यतो-द्रव्यगुणकर्मसु सा सत्ताइति वचनाद्-यत्रैव सत्प्रत्ययस्तत्रैव सत्ताः सत्प्रत्ययश्च-द्रव्यगुणकर्मस्वेव, अतस्तेष्वेव, सत्तायोगः । सामान्यादिपदार्थत्रये तु न; तदभावात् । इदमुक्तं भवति--यद्यपि वस्तुस्वरूपं-अस्तित्वं सामान्यादित्रयेऽपि विद्यते; तथापि तदनुवृत्तिप्रत्ययहेतुर्न भवति; य एव १ ' विशेषसंयोग' इत्यपपाठः । प्रशस्तपादभाष्येऽनुपलब्धेः ।