________________
स्याद्वादमञ्जरीसहिता
श्लोक ८ चानुवृत्तिप्रत्ययः स एव सदितिप्रत्यय इति, तदभावाद् न सत्ता. योगस्तत्र । द्रव्यादीनां पुनस्त्रयाणां षट्पदार्थसाधारणं वस्तुस्वरूपम् अस्तित्वमपि विद्यते, अनुवृत्तिप्रत्ययहेतुः सत्तासम्बन्धोऽप्यस्ति, निःस्वरूपे शशविषाणादौ सत्तायाः समवायाभावात् ।
सामान्यादित्रिके कथं नानुवृत्तिप्रत्ययः ? । इति चेद्बाधकसद्भावादिति ब्रूमः । तथाहि-सत्तायामपि सत्तायोगाङ्गीकारे-अनवस्था । विशेषेषु पुनस्तदभ्युपगमे-व्यावृत्तिहेतुत्वलक्षणतत्स्वरूपहा - निः । समवाये तु तत्कल्पनायां सम्बन्धाभावः; केन हि सम्बन्धेन तत्र सत्ता सम्बध्यते ?, समवायान्तराभावात् । तथा च प्रामाणिकप्रकाण्डमुदयनः--
"व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः। रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः" ॥१॥ इति । ततः स्थितमेतत्सतामाप स्यात् कचिदेव सत्तेति।।
तथां, चैतन्यमित्यादि, चैतन्य-ज्ञानम्, आत्मनः-क्षेत्रज्ञान, अन्यद्-अत्यन्तव्यतिरिक्तम् , असमासकरणादत्यन्तमिति लभ्यते । अत्यन्तभेदे सति कथमात्मनः सम्बन्धिज्ञानमिति व्यपदेशः ?, इति पराशङ्कापरिहारार्थ औपाधिकमिति विशेषणद्वारेण हेत्वभिधानम् । उपाधेरागतमोपाधिकम्-समवायसम्बन्धलक्षणेनोपाधिना आत्मनि समवेतम् , आत्मनः स्वयं जडरूपत्वात् समवायसम्बन्धो'पंढौकितामति यावत् । यद्यात्मनो ज्ञानादव्यतिरिक्तत्वमिष्यते, तदा दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावाद्
१ किरणावल्यां द्रव्यप्रकरणे पृष्ठ १६१ । २' तथा ' इति क. पुस्तके नास्ति । ३ तत्वज्ञानान्मिथ्याज्ञानापाये रागद्वेषमोहारव्या दोषा अपयान्ति, दोषापाये वाङ्मनःकायव्यापाररूपायाः शुभाशुभफलायाः प्रवृत्तेरपायः । प्रवृत्त्यपाये जन्माषायः । जन्मापाये एकविंशतिभेदस्य दुःखस्यापायः ।