________________
२
श्लोक १
अन्ययोगव्यवच्छेदिका इह हि विषमदुःषमाररजनितिमिरतिरस्कारभास्करानुकारिणा वसुधातलावतीर्णसुधासौरिणीदेश्यदेशनावितानपरमाईतीकृतश्रीकुमारपालक्ष्मापालप्रवर्तिताभयदानाभिधानजीर्वांतुसंजीवितनानाजीवादत्ताशीर्वादमाहात्म्यकल्पाऽवधिस्थायि विशदयशःशरीरेण निरवधचातुर्विद्यनिर्माणैकब्रह्मणा श्रीहेमचन्द्रसूरिणा जगत्प्रसिद्धश्रीसिद्धसेनदिवाकरविरचितद्वात्रिंशद्वात्रिंशिकानुसारि श्रीवर्धमानजिनस्तुतिरूपमयोगव्यवच्छेदान्ययोगव्यवच्छेदाभिधानं द्वात्रिंशिकाद्वितयं विद्वज्जनमनस्तत्त्वाऽवबोधनिबन्धनं विदधे। तत्र च प्रथमद्वात्रिंशिकायाः सुखोन्नेयत्वाद् तद्व्याख्यानमुपेक्ष्य द्वितीयस्यास्तस्या निःशेषदुर्वादिपरिषदधिक्षेपदक्षायाः कतिपयपदार्थविवरणकरणेन स्वस्मृतिजिप्रबोधविधिविधीयते । तस्याश्चेदमादिकाव्यम् - बोज ..
__ अनन्तविज्ञानमतीतदोष
___ मबाध्यसिद्धान्तममर्त्यपूज्यम् । १ दुःषमारः -- दुःषमाख्यः पञ्चमोऽर एकविंशतिवर्षसहस्रात्मकः कालः । एवं तत्तल्लक्षणविशिष्टाः षड् अरा भवन्ति । तेषां सर्वेषां लक्षणानि -- अभिधानचिन्तामणौ प्रथमकाण्डे ४२ श्लोके द्रष्टव्यानि । .
२ 'तिमिर' इति नास्ति रा. पुस्तके। ३ 'सारणी' इति ख. पुस्तके पाठः । ४ 'जीवातुर्जीवनौषधम् ' इत्यमरः । 'जीवानुसंजीवित ' इति ख. पुस्तके पाठः । ५ 'स्थिरीकृत' इति ख, पुस्तके पाठः। ६ लक्षणागमसाहित्यतर्का इति चतस्रो विद्याः । ७ एतच्छब्दार्थों व्याख्याकृताग्रे (श्लो. ६) क्रियते । ८ ' तस्याः' इति च. पुस्तके नास्ति । ९ ' विचारणा' इति च. पुस्तके पाठः । १० 'संस्कार' इति ख. पुस्तके पाठः। ११ पण्डा तत्त्वानुगा मोक्षे ज्ञानं विज्ञानमन्यतः । शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । इत्यभिधानचिन्तामणौ द्वितीयकाण्डे २२४ श्लोकः ।