________________
ॐ नमः सर्वज्ञाय कलिकालसर्वजश्रीहेमचन्द्राचार्यविरचिता अन्ययोगव्यवच्छेदिका
तद्व्याख्या च श्रीमल्लिषेणसूरिप्रणीता स्याद्वादमञ्जरी।
यस्य ज्ञानमनन्तवस्तुविषयं यः पूज्यते दैवतैनित्यं यस्य वचो न दुर्नयकृतैः कोलाहलैलुप्यते । रागद्वेषमुखद्विषां च परिषत् क्षिप्ता क्षणाद् येन सा स श्रीवीरविभुर्विधूतकलुषां बुद्धिं विधत्तां मम ॥१॥ निस्सीमप्रतिभैकजीवितधरौ निःशेषभूमिस्पृशां पुण्यौधेन सरस्वतीसुरगुरू स्वाङ्गैकरूपौ दधत् । यः स्याद्वादमसाधयन् निजवपुर्दृष्टान्ततः सोऽस्तु मे सदबुद्ध्यम्बुनिधिप्रबोधविधये श्रीहेमचन्द्रः प्रभुः ॥२॥ ये हेमचन्द्र मुनिमेतदुक्तग्रन्थार्थसेवामिषतः श्रयन्ते । संप्राप्य ते गौरवमुज्ज्वलानां पदं कलानामुचितं भवन्ति।३। मातर्भारति सन्निधेहि हृदि मे येनेयमाप्तस्तुतेनिर्मातुं विवृति प्रसिद्ध्यति जवादारम्भसम्भावना । यद्वा विस्मृतमोष्ठयोः स्फुरति यत् सारस्वतः शाश्वतो मन्त्रः श्रीउदयप्रभेतिरचनारम्यो ममाहर्निशम् ॥ ४॥ १ ' स्वाङ्गैकरूपे ' इति पाठः क. ह. रा. पुस्तकेषु । २ 'भजन्ति ' इत्यपि क, ह. रा. पुस्तकेषु पाठः ।