________________
श्लोक १७ अन्ययोगव्यवच्छेदिका
१४८ निषिध्यते वा । ततश्च निष्पतिपक्षा प्रमाणादितत्त्वचतुष्टयीव्यवस्था । अशून्यं चेत् । प्रलीनस्तपस्वी शून्यवादः। भवद्वचनेनैव सर्वशून्यताया व्यभिचारात् , तत्रापि निष्कण्टकैव सा भगवती । तथापि प्रामाणिकसमयपरिपालनार्थ किञ्चित् तत्साधनं दृष्यते । तत्र यत्तावदुक्तम् प्रमातुः प्रत्यक्षेण न सिद्धिः, इन्द्रियगोचरातिक्रान्तत्वादिति, तत्सिद्धसाधनम् । यत्पुनः, अहंप्रत्ययेन तस्य मानसप्रत्यक्षत्वमनैकान्तिकमित्युक्तम् । तदसिद्धम् । 'अहं सुखी' 'अहं दुःखी' इति–अन्तर्मुखस्य प्रत्ययस्य आत्मालम्बनतयैवोपपत्तेः । तथा चाहुः----
" सुखादि चेत्यमानं हि स्वतन्त्रं नानुभूयते । मतुबर्थानुवेनुधात्तु सिद्धं ग्रहणमात्मनः ॥१॥ इदं सुखमिति ज्ञानं दृश्यते नं घटादिवत् । अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका ॥२॥"
यत्पुनः 'अहं गौरः, अहं श्यामः' इत्यादिबहिर्मुखः प्रत्ययः, स खल्वात्मोपकारकत्वेन लक्षणया शरीरे प्रयुज्यते । यथा-प्रियभृत्येऽहमितिव्यपदेशः।
___ यच्च, अहंप्रत्ययस्य कादाचित्कत्वम् , तत्रेयं वासना-आत्मा तावदुपयोगलक्षणः, सच साकारानाकारोपयोगयोरन्यतरस्मिन्नियमेनोपयुक्त एव भवति । अहंप्रत्ययोऽपि चोपयोगविशेष एव, तस्य च कर्मक्षयोपशमवैचित्र्यात् इन्द्रियानिन्द्रियालोकविषयादिनिमित्तसव्यपेक्षतया प्रवर्त्तमानस्य कादाचित्कत्वमुपपन्नमेव । यथा-बीजं सत्यामप्यकुरोपजननशक्तौ पृथिव्युदकादिसहकारिकारणकलापसमवहितमेवाङ्कुरं जनयात । नान्यथा । न चैतावता तस्याङ्कुरोत्पादने कादाचित्केऽपि तदुत्पादनशक्तिरापि कादाचित्की । तस्याः
१ चेत्यमानम्-ज्ञायमानम् ।