________________
१४९ स्वाद्वादमञ्जरीसहिता
श्लोक १७ कथंचिन्नित्यत्वात् । एवमात्मनः सदा सन्निहितत्वेऽप्यहंप्रत्ययस्य कादाचित्कत्वम् । ।
यदप्युक्तम्-तस्या व्यभिचारि लिङ्ग किमपि नोपलभ्यत इति। तदप्यसारं,साध्याविनाभाविनोऽनेकस्य लिङ्गस्य तत्रोपलब्धः,तथाहिरूपायुपलब्धिः सकर्तृका, क्रियात्वात् , छिदिक्रियावत् । यश्चास्याः कर्ता स आत्मा । न चात्र चैषां पौद्भलिकत्वेनाचेतनत्वात् , परप्रेर्यत्वात् , प्रयोक्तृव्यापारनिरपेक्षप्रवृत्त्यभावात् । यदि हि', इन्द्रियाणामेव कर्तृत्वं स्यात् , तदा तेषु विनष्टेषु पूर्वानुभूतार्थस्मृतेः, 'मया दृष्टम् , स्पृष्टम् , घातम् , आस्वादितम् , श्रुतम् ' इति प्रत्ययानामेककर्तृकत्वप्रतिपत्तेश्च कुतः संभवः । किञ्च, इन्द्रियाणां स्वस्वविषयनियतत्वेन रूपरसयोः साहचर्यप्रतीतौ न सामर्थ्यम् । अस्ति च, तथाविधफलादे रूपग्रहणानन्तरं तत्सहचरितरसानुस्मरणम् , दन्तोदकसंप्लवान्यथानुपपत्तेः । तस्मादुभयोर्गवाक्षयोरन्तर्गतः प्रेक्षक इव, द्वाभ्यामिन्द्रियाभ्यां रूपरसयोर्दी कश्चिदेकोऽनुमीयते । तस्मात्करणान्येतानि, यश्चैषां व्यापारयितां स आत्मा, तथा, साधनोपादानपरिवर्जनद्वारेण हिताहितप्राप्तिपरिहारसमर्था चेष्टा प्रयत्नपूर्विका, विशिष्टक्रियात्वात् , रथक्रियावत्.। शरीरं च प्रयत्नवदधिष्ठितम् , विशिष्टक्रियाश्रयत्वात् , रथवत् । यश्चास्याधिष्ठाता, स आत्मा, सारथिवत् । तथात्रैव पक्षे, इच्छापूर्वकविकृतवाय्वाश्रयत्वाद् भस्वावत् , वायुश्च-प्राणापानादिः । यश्चास्याधिष्ठाता, स आत्मा, भस्त्राध्मापयितृवत् । तथात्रैव पक्षे, इच्छाधीननिमेषोन्मेषवदवयवयोगित्वाद् , दारुयन्त्रवत् । तथा शरीरस्य वृद्धिक्षतभग्नसंरोहणं च प्रयत्नवत्कृतम् वृद्धिक्षतभनसंरोहणत्वाद् , गृहवृद्धिक्षतभनसंरोहणवत् । वृक्षादिगतेन वृध्यादिना व्यभिचार इति चेत् । न । तेषामपि एकेन्द्रियजन्तुत्वेन सात्मकत्वात् ।
१ 'हि' इति क. ख. रा. पुस्तकेषु नास्ति । २ 'प्रतीतेश्च' इति ख. पुस्तके पाठः ।