________________
श्लोक १७
अन्ययोगन्यवच्छेदिका यश्चैषां कर्ता, स आत्मा, गृहपतिवत् । वृक्षादीनां च सात्मकत्वमाचाराङ्गादेरवसेयम् , किंचिक्ष्यते च । -
तथा प्रेर्य मनः, अभिमतविषयसम्बन्धनिमित्तक्रियाश्रयत्वाद्, दारकहस्तगतगोलकवत् । यश्चास्य प्रेरकः, स आत्मा, इति । तथा, आत्म-चेतनक्षेत्रज्ञ-जीव-पुरुषादयः पर्याया न निर्विषयाः, पर्यायत्वाद् , घट-कुट-कलशादिपर्यायवत् , व्यतिरेके षष्ठभूतादि । यश्चैषां विषयः, स आत्मा । तथा, अस्त्यात्मा, असमस्तपर्यायवाच्यत्वात् , यो योऽसाङ्केतिकशुद्धपर्यायवाच्यः, स सोऽस्तित्वं न व्यभिचरति, यथा घटादिः, व्यतिरेके खरविषाणनभोऽम्भोरुहादयः । तथा सुखादीनि द्रव्याश्रितानि, गुणत्वाद् , रूपवत् , योऽसौ गुणी, स आत्मा । इत्यादिलिङ्गानि तस्मादनुमानतोऽप्यात्मा सिद्धः।
आगमानां च येषांपूर्वापरविरुद्धार्थत्वम् , तेषामप्रामाण्यमेव । यस्त्वाप्तपणीत आगमः, स प्रमाणमेवं, कष-च्छेद-तापलक्षणोपाधित्रयविशुद्धत्वात् । कषादीनां च स्वरूपं पुरस्ताद्वक्ष्यामः।
न च वाच्यमाप्तः क्षीणसर्वदोषः । तथाविधं चाप्तत्वं कस्यापि नास्तीति । यतः रागादयः कस्यचिदत्यन्तमुच्छिद्यन्ते, अस्मदादिषु तदुच्छेदप्रकर्षापकर्षोपलम्भात्, सूर्याद्यावरकजलदपटलवत् । तथा चाहुः
१ 'आचाराङ्गात्' इति क. पुस्तके पाठः । आचाराङ्गसूत्रश्रुतस्कंध १ अध्ययन १ उद्देश ५।
२ श्लोक २९ । ३ 'पुद्गलादयः' इति क. पुस्तके पाठः । ४ 'समस्तपर्यायवाच्यत्वात्' इति क. पुस्तके पाठः ।
५ आगमो ह्याप्तवचनमाप्तदोषक्षयं विदुः । क्षीणदोषोऽनृतं वाक्यं न ब्रूयादेव संभवात् ॥ १ ॥ इत्यधिक क. पुस्तके ।
६ तापाच्छेदानिकषात्सुवर्णमिव पण्डितैः । परीक्ष्य भिक्षबो ग्राह्यं मद्वचो न तु गौरवात् ।। १॥ इत्याधिक क. पुस्तके ।
७ श्लोक, ३२ प्र. ४.