________________
१५१ स्याद्वादमञ्जरीसहिता
श्लोक १७ "देशतो नाशिनो भावा दृष्टा निखिलनश्वराः। मेघपङ्क्त्यादयो यद्वत् एवं रागादयो मताः" ॥१॥ इति । ____ यस्य च निरवयवतयैते विलीनाः, स एवाप्तो भगवान् सर्वज्ञः। अथ अनादित्वाद् रागादीनां कथं प्रक्षयः ? इति चेत् । न । उपायतस्तद्भावात् । अनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिना विलयोपलम्भात् । तद्वदेवानादीनामपि रागादिदोषाणां प्रतिपक्षभूतरत्नत्रयाभ्यासेन विलयोपपत्तेः । क्षीणदोषस्य च केवलज्ञानाव्यभिचारात् सर्वज्ञत्वम् । तत्सिद्धिस्तु-ज्ञानतारतम्यं कचिद् विश्रान्तम् , तारतम्यत्वात् , आकाशे परिणामतारतम्यवत् । तथा सूक्ष्मान्तरितदूरार्थाः, कस्यचित्प्रत्यक्षाः, अनुमेयत्वात् , क्षितिधरकन्धराधिकरणभूमध्वजवत् । एवं चन्द्रसूर्योपरागादिसूचकज्योतिर्ज्ञानाविसंवादान्यथानुपपत्तिप्रभृतयोऽपि हेतवो वाच्याः । तदेवमाप्तेन सर्वविदा प्रणीत आगमः प्रमाणमेव । तदप्रामाण्यं हि प्रणायकदोषनिबन्धनम् । " रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् ।
यस्य तु नैते दोषास्तस्यानृतकारणं किं स्यात् ?" ॥१॥ इति वचनात् ।
प्रणेतुश्च निर्दोषत्वमुपपादितमेवेति सिद्ध आगमादप्यात्मा, "एंगे आया". इत्यादि वचनात् , तदेवं प्रत्यक्षानुमानागमैः सिद्धः प्रमाता।
प्रमेयं चानन्तरमेव बाह्यार्थसाधने साधितम् । तत्सिद्धौ च 'प्रमाणं ज्ञानम् , तच्च प्रमेयाभावे कस्य ग्राहकमस्तु निर्विषयत्वात्' इति प्रलापमात्रम् । करणमन्तरेण क्रियासिद्धरयोगाद् , लवनादिषु तथा
१ शानदर्शनचारित्रेति रत्नत्रयम् ।। २ उपरागः--चन्द्रसूर्ययो राहुकृतं ग्रहणम् । ३ स्थानाङ्गसूत्र १ स्थाने १ सूत्रे । ४ लवनं-छेदनम् ।