________________
श्लोक १७
अन्ययोगव्यवच्छेदिका
१५२ दर्शनात् । यच्च, अर्थसमकालमित्याद्युक्तम् । तत्र, विकल्पद्वयमपि स्वीक्रियत एव । अस्मदादिप्रत्यक्षं हि समकालार्थाकलनकुशलम् , स्मरणमतीतार्थस्य ग्राहकम् , शब्दानुमाने च त्रैकालिकस्याप्यर्थस्य परिच्छेदके । निराकारं चैतद् द्वयमपि । न चातिप्रसङ्गः, स्वज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषवशादेवास्य नैयत्येन प्रवृत्तेः । शेषविकल्पानामस्वीकार एव तिरस्कारः।
प्रमितिस्तु, प्रमाणस्य फलं स्वसंवेदनसिदैव । न बनुभवेऽप्युपदेशापेक्षा । फलं च द्विधा, आनन्तर्यपारम्पर्यभेदात् , तत्रानन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम् , पारम्पर्येण केवलज्ञानस्य तावत् फलमौदासीन्यम् , शेषप्रमाणानां तु हानोपादानोपेक्षाबुद्धयः इति सुव्यवस्थितं प्रमात्रादिचतुष्टयम् । ततश्च"नासन्न सन्न सदसन्न चाप्यनुभयात्मकम् ।
चतुष्कोटिविनिमुक्तं तत्त्वमाध्यात्मिका विदुः" ॥१॥ इत्युन्मत्तभाषितम्।
किश्च इदं प्रमात्रादीनामवास्तवत्वं शून्यवादिना वस्तुवृत्त्या तावदेष्टव्यम् , तच्चासौ प्रमाणात् अभिमन्यते, अप्रमाणाद्वा । न तावदप्रमाणात्, तस्याकिश्चित्करत्वात् । अथ प्रमाणात् , तन्न । अवास्तवत्वग्राहकं प्रमाणं सांवृत्तम् , ओसांवृत्तं वा स्यात् । यदि सांवृत्तम्, कथं तस्मादवास्तवाद् वास्तवस्य शून्यवादस्य सिद्धिः, तथा च वास्तव एव समस्तोऽपि प्रमात्रादिव्यवहारः प्राप्तः । अथ
पं अस्मन्मुद्रापितप्रमाणमीमांसा पृ. १८ टिप्पन्याम् ।
२ वीर्यान्तरायः कर्मविशेषः-यस्योदये सति उत्साहप्रतिघातो भवति तद्रूपत्वं वीर्यान्तरायस्य लक्षणम् । क्षयोपशमः-ज्ञानादिघातिनां पुद्गलानां क्षयोपशमौ, केचित् क्षपिताः केचिदुपशान्ता इति क्षयोपशमावुच्येते, ताभ्यां निवृत्तोऽध्यवसायः क्षायोपशामिक इति ।
३ अनिरूपिततत्त्वार्थी प्रतीतिः संवृत्तिमता । . ४ 'तदसिद्धौ' इत्यधिकं क. ह. पुस्तकयोः।।