SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १५३ . स्याद्वादमञ्जरीसहिता श्लोक १८ तद्ग्राहकं प्रमाणं स्वयमसांवृत्तम् , तर्हि क्षीणा प्रमात्रादिव्यवहारावास्तवत्वप्रतिज्ञा, तेनैव व्यभिचारात् । तदेवं पक्षद्वयेऽपि 'इतो व्याघ्र इतस्तटी' इति न्यायेन व्यक्त एव परमार्थतः स्वाभिमतसिद्धिविरोधः । इति काव्यार्थः ॥ १७ ॥ ___ अधुना क्षणिकवादिन ऐहिकामुष्मिकव्यवहारानुपपन्नार्थसमर्थनमाविमुंश्यकारितं दर्शयन्नाह कृतप्रणाशा-कृतकर्मभोग भव-प्रमोक्ष-स्मृतिभगदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन् अहो ! महासाहसिकः परस्ते ॥१८॥ कृतप्रणाशदोषम्, अकृतकर्मभोगदोषम्, भवभङ्गदोषम्, प्रमोक्षभङ्गदोषम्, स्मृतिभङ्गदोषामित्येतान् दोर्षांन् । साक्षादित्यनुभवसिद्धान्, उपेक्ष्यानादृत्व, साक्षात् कुर्वन्नपि गजनिमीलिकामवलम्बमानः । सर्वभावानां क्षणभङ्गम्-उदयानन्तरविनाशरूपां क्षणक्षयिताम्, इच्छन् प्रतिपद्यमानः, ते तव, परः प्रतिपक्षी वैनाशिकः, सौगत इत्यर्थः । अहो! महासाहसिकः-सहसा अविमर्शात्मकेन बलेन, वर्तते साहसिकः। भाविनमनर्थमविभाव्य यः प्रवर्तते स एवमुच्यते, महां१ 'क्षणिकवादिनाम् ' इति घ. पुस्तके पाठः । २ 'अविमर्श' इति घ, पुस्तके पाठः। 'अविमृश्यकारिताकारितम् ' इति क, ख. पुस्तकयोः पाठः।। ३ 'बन्ध' इति क. पुस्तके पाठः । ४ 'दोषान् ' इति पदं नास्ति क, ख, घ, रा. पुस्तकेषु । ५ गजो नेत्रे निमील्य जलपानादि करोति नेत्रनिमीलनेन न किंचित्करोमीति भावयति च तद्वदयं यादी कृतप्रणाशादीन् दोषान् साक्षादनुभवन् सर्वभावानां क्षणभङ्गरतां प्रतिपद्यते ।
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy