________________
१५४
श्लोक १८
अन्ययोगव्यवच्छेदिका श्वासौ साहसिकश्च महासाहसिकोऽत्यन्तसविमृश्य प्रवृत्तिकारी । इति मुकुलितार्थः।
विकृतार्थस्त्वयम्-बौद्धा बुद्धिक्षणपरम्परामात्रमेवात्मानमामनन्ति न पुनर्मोक्तिककणनिकरानुस्यूतैकसूत्रवत्, तदन्वयिनमेकम् । तन्मते, येन ज्ञानक्षणेन सदनुष्ठानमसदनुष्ठानं वा कृतम्, तस्य निरन्वयविनाशान्न तत्फलोपभोगः, यस्य च फलोपभोगः, तेन तत् कर्म न कृतम् । इति प्राच्यज्ञानक्षणस्य कृतप्रणाशः, स्वकृतकर्मफलानुपभोगात् । उत्तरज्ञानक्षणस्य चाकृतकर्मभोगः, स्वयमकृतस्य परकृतस्य कर्मणः, फलोपभोगादिति । अत्र च कर्मशब्द उभयत्रापि योज्यः, तेन कृतप्रणास इत्यस्य कृतकर्मप्रणाश इत्यर्थो दृश्यः । बन्धानुलोम्यान्चेत्थमुपन्यासः।
तथा भवभङ्गदोषः-भव आर्जवीभावलक्षणः संसारः, तस्य भङ्गो विलोपः, स एव दोषः क्षणिकवादे प्रसज्जते परलोकाभावप्रसङ्ग इत्यर्थः । परलोकिनः कस्यचिदभावात् । परलोको हि पूर्वजन्मकृतकर्मानुसारेण भवति । तच्च प्राचीनज्ञानक्षणानां निरन्वयं नाशात् केन नामोपभुज्यतां जन्मातरे । यच्च मोक्षाकरगुप्तेन
“यच्चित्तं तच्चित्तान्तरं प्रतिसन्धत्ते, यथेदानीन्तनं चित्तं, चित्तं च मरणकालभावि" इति भवपरम्परा सिद्धये प्रमाणमुक्तम्, तद् व्यर्थम् । चित्तक्षणानां निरवशेर्पनाशिनां चित्तान्तरपतिसंधानायोगात् । द्वयोरवस्थितयोहि प्रतिसंधानमुभयानुगामिना केनचित् क्रियते । यश्चानयोः प्रतिसंधाता, स तेन नाभ्यु
१ संक्षिप्तार्थः । २ 'कृतकर्मणा इत्यर्थः ' इति क. पुस्तके पाठः ।
३ श्लोकाक्षराधिक्येन वृत्तविघातो मा भवत्वतश्छन्दः--शास्त्रानुरोधात् कृतकर्मप्रणाश इत्यर्थे कृतप्रणाश इति श्लोके शब्दनिवेश इत्यर्थः ।
४ 'विनाशिनाम् ' इति क, रा. ह. पुस्तकेषु पाठः ।