________________
१५५ - स्याद्वादमञ्जरीसहिता
श्लोक १८ पगम्यते स ह्यात्मान्वयी । न च प्रतिसंधत्ते इत्यस्य जनयतीत्यर्थः, कार्यहेतुप्रसङ्गात् । तेन वादिनास्य हेतोः स्वभावहेतुत्वेनोक्तत्वात्, स्वभावहेतुश्च तादात्म्ये सति भवति, भिन्नकालभाविनोश्च चित्तचित्तान्तरयोः कुतस्तादात्म्यम् । युगपद्भाविनोश्च प्रतिसन्धेय-प्रतिसन्धायकत्वाभावापत्तिः, युगपद्भावित्वेऽविशिष्टेऽपि किमत्र नियाम कम् , यदेकः प्रतिसन्धायकोऽपरश्च प्रतिसन्धेय इति । अस्तु वा प्रतिस न्धानस्यजननमर्थः । सोऽप्यनुपपन्नः । तुल्यकालत्वे, हेतुफलभाव स्याभावात् । भिन्नकालत्वे च, पूर्वचित्तक्षणस्य विनष्टत्वात् उत्तर चित्तक्षणः कथमुपादानमन्तरेणोत्पद्यताम् ? इति यत्किञ्चिदेतत् ।
तथा प्रमोक्षभङ्गदोषः-प्रकर्षणापुनर्भावेन कर्मबन्धनाद् मोक्षो मुक्तिः प्रमोक्षस्तस्यापि भङ्गः प्राप्नोति । तन्मते तावदात्मैव नास्ति, कः प्रेत्य सुखीभवनाथ यतिष्यते । ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणसुखीभवनाय घटिष्यते । न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः । क्षणस्य तु दुःखं स्वरसनाशित्वात् तेनैव सार्ध दध्वंसे, सन्तानस्तु न वास्तवः कश्चित् । वास्तवत्वे तु, आत्माभ्युपगमप्रसङ्गः।
अपि च बौद्धाः “निविलवासनोच्छेदे विगतविषयाकारोपप्लवविशुद्धज्ञानोत्पादो मोक्षः" इत्याहुस्तच्च न घटते, कारणाभावादेव तदनुपपत्तेः-भावनापचयो हि तस्य कारणमिष्यते, स च स्थिरैकाश्रयाभावाद विशेषानाधायकः, प्रतिक्षणमपूर्ववद् उपजायमानो निरन्वयविनाशी, गगनलङनाभ्यासवत् अनासादितप्रकर्षों न स्फुटाभिज्ञानजननाय प्रभवति, इत्यनुपपत्तिरेव तस्य । समलचित्त
१ ' भङ्गमाप्नोति ' इति क. पुस्तके पाठः । २ सर्व क्षणिकं सर्व क्षणिकमिति धारावाहिकबुद्धिरूपा भावनास्तासां प्रचयः समुदायः ।