________________
श्लोक १८ अन्ययोगव्यवच्छेदिका
१५६ क्षणानां स्वाभाविक्याः सदृशारम्भणशक्तेरसदृशारम्भम् प्रत्यशक्तेश्च, अकस्मादनुच्छेदात् । किं च, समलचित्तक्षणाः पूर्वे स्वरसपरिनिर्वाणाः, अयमपूर्वो जातः सन्तानश्चैको न विद्यते, बन्धमोक्षौ चैकाधिकरणौन विषयभेदेन वर्तेते । तत् कस्येयं मुक्तिर्य एतदर्थ प्रयतते । अयं हि मोक्षशब्दो बन्धनच्छेदपर्यायः । मोक्षश्च तस्यैव घटते यो बद्धः, क्षणक्षयवादे त्वन्यः क्षणो बद्धः । क्षणान्तरस्य च मुक्तिरिति प्राप्नोति मोक्षाभावः । ..
तथा स्मृतिभङ्गदोषः, तथा हि-पूर्वबुध्यानुभूतेऽर्थे नोत्तरबुद्धीनां स्मृतिः संभवति, ततोऽन्यत्वात्, सन्तानान्तरबुद्धिवत् । न ह्यन्यदृष्टोऽर्थोऽन्येन स्मयते, अन्यथा एकेन दृष्टोऽर्थः सर्वैः स्मर्यंत स्मरणाभावे च कौतस्कुती प्रत्यभिज्ञाप्रमूतिः । तस्याः स्मरणानुभवोभयसंभवत्वात्-पदार्थप्रेक्षणप्रबुद्धप्राक्तनसंस्कारस्य हि प्रमातुः स एवायमित्याकारेण इयमुत्पद्यते । अथ स्यादयं दोषः, यद्यविशेषेणान्यदृष्टमन्यः स्मरतीत्युच्यते । किन्तु, अन्यत्वेऽपि कार्यकारणभावाद् एव च स्मृतिः, भिन्नसंतानबुद्धीनां तु कार्यकारणभावो नास्ति, तेन सन्तानान्तराणां स्मृतिर्न भवति । न चैकसांतानिकीनामपि बुद्धीनां कार्यकारणभावो नास्ति, येन पूर्वबुध्यनुभूतेऽर्थे तदुत्तरबुद्धीनां स्मृतिर्न स्यात् । तदप्यनवदातम्, एवमपि अन्यत्वस्य तदवस्थत्वात्, न हि कार्यकारणभावाभिधानेऽपि तदपगतं, क्षणिकत्वेन सर्वासां भिन्नत्वात् । न हि कार्यकारणभावात् स्मृतिरित्यत्रोभयप्रसिद्धोऽस्ति दृष्टान्तः अथ“यस्मिन्नेव हि सन्ताने आहिता कर्मवासना ।
फलं तत्रैव संधत्ते कसे रक्तता यथा" ॥१॥ इति १ परिनिर्वाणः-लयः। २ कुतः कुत आगता प्रत्यभिज्ञायाः प्रसूतिः-उत्पत्तिः । • ३ असंगतम् ।