________________
१५७ स्याद्वादमञ्जरीसहिता
श्लोक १८ कर्पासे रक्ततादृष्टान्तोऽस्तीति चेत् । तदसाधीयः, साधनदूषणयोरसम्भवात् , । तथाहि-अन्वयाद्यसम्भवान्न साधनम् । न हि कार्यकारणभावो यत्र तत्र स्मृतिः, कपासे रक्ततावदित्यन्वयः सम्भवति, नापि यत्र न स्मृतिस्तत्र न कार्यकारणभाव इति व्यतिरेकोऽस्ति । असिद्धत्वाद्यनुद्भावनाच न दूषणम् । न हि, ततोऽन्यत्वात् इत्यस्य हेतोः कर्पासे रक्ततावत् इत्यनेन कश्चिदोषः प्रतिपाद्यते ।
किञ्च, यद्यन्यत्वेऽपि कार्यकारणभावेन स्मृतेरुत्पत्तिरिष्यते, तदा शिष्याचार्यादिबुद्धीनामाप कार्यकारणभावसद्भावेन स्मृत्यादिः स्यात् । अथ नायं प्रसङ्गः, .एकसंतान त्वे सतीति विशेषणादिति चेत् । तदप्ययुक्तम् , भेदाभेदपक्षाभ्यां तस्योपक्षीणत्वात् । क्षणपरम्परातस्तस्याभेदे हि क्षणपरम्परैव सा, तथा च संतान इति न किश्चिदतिरिक्तमुक्तं स्यात् । भेदे तु, पारमार्थिकः, अपारमार्थिको वासौ स्यात् ? अपारमार्थिकत्वेऽस्य तदेव दूषणम् , अकिश्चित्करत्वात् । पास्मार्थिकत्वे, स्थिरो वा स्यात् , क्षणिको वा ? । क्षाणकत्वे, संतानिनिर्विशेष एवायम् , इति किमनेन स्तेन भीतस्य स्तेनान्तरशरणस्वीकरणानुकरणिना । स्थिरश्चेत् आत्मैव संज्ञाभेदतिरोहितः प्रतिपन्नः । इति न स्मृतिर्घटते क्षणक्षयवादिनाम् । तदभावे च, अनुमानस्यानुत्थानमित्युक्तम् प्रागेव । अपि च, स्मृतेरभावे निहितप्रत्युन्मार्गण-प्रत्यर्पणादिव्यवहारा विशीर्येरन्"इत एकनवते कल्पे शक्त्या में पुरुषो हतः।। तेन कर्मविपाकेन पादे विद्वोऽस्मि भिक्षवः !॥१॥
इति वचनस्य का गतिः । एवमुत्पत्तिरुत्पादयति, स्थितिः स्थापयति, जरा जर्जरयति, विनाशो नाशयतीति चतुःक्षणिकं वस्तु प्रतिजानाना अपि प्रतिक्षेप्याः, तदेवमनेकदोषापातेऽपि यः क्षणभगमभिप्रैति, तस्य महत् साहसम् । इति काव्यार्थः ॥ १८ ॥ -
अथ ताथागताः क्षणक्षयपक्षे सर्वव्यवहारानुपपत्तिं परैरु