________________
श्लोक १९
अन्ययोगव्यवच्छेदिका
१५८
द्भावितामाकर्ण्य, इत्थं प्रतिपादयन्ति यत् पदार्थानां क्षणिकत्वेऽपि वासनाबललब्धजन्मना ऐक्याध्यवसायेन ऐहिकामुष्मिकव्यवहारप्रवृत्तेः कृतप्रणाशादिदोषा निरवकाशा एव, इति । तदाकूतं परिहर्तुकामस्तत्काल्पतवासनायाः क्षणपरम्परातो भेदाभेदानुभयलक्षणे पक्षत्रयेऽप्यघटमानत्वं दर्शयन् स्वाभिप्रेतभेदाभेदस्याद्वादमकामयमानानपि तानङ्गीकारयितुमाह
सा वासना सा क्षणसन्ततिश्च
नाभेद-भेदा-नुभयैर्घटेते । ततस्तटादर्शिशकुन्तपोत
न्यायात् त्वदुक्तानि परे श्रयन्तु ॥ १९॥ सा शास्त्रपरिकल्पिता, त्रुटितमुक्तावलीकल्पानां परस्परविशकलितानां क्षणानामन्योन्यानुस्यूतप्रत्ययजनिका, एकमूत्रस्थानीया सन्तानापरपर्याया वासना । वासनेति-पूर्वज्ञानजनितामुत्तरज्ञाने शक्तिमाहुः सा च, क्षणसन्ततिस्तद्देशनप्रसिद्धा । प्रदीपकलिकावत् नवनवोत्पद्यमानापरापरसदृशक्षणपरम्परा, एते द्वे अपि अभेद-भेदानुभयैर्न घटेते-न तावदभेदेन तादात्म्येन, ते घटेते । तयोर्हि अभेदे, वासना वा स्यात् क्षणपरम्परा वा । न द्वयम् , यद्धि यस्मादभिन्न न तत् ततः पृथगुपलभ्यते, यथा घटाद् घटस्वरूपम् । केवलायां वासनायामन्वयिस्वीकारः, वास्याभावे च किं तया वासनीयमस्तु । इति तस्या आपे न स्वरूपमवतिष्ठते । क्षणपरम्परामात्राङ्गीकरणे च प्राञ्च एव दोषाः।
१ ' प्रतिपादयिष्यन्ति ' इति क. ख. घ. रा. पुस्तकेषु पाठः।
२ सर्वपदार्थानाम् ' इति क. पुस्तके पाठः । • ३ पूर्वोक्ता अष्टादशश्लोकोक्ताः ।