________________
१५९ स्थाद्वादमञ्जरीसहिता
श्लोक १९ न च भेदेन ते युज्यते । सा हि भिन्ना वासना क्षाणका वा स्यात् , अक्षणिका वा। क्षणिका चेत् । तर्हि क्षणेभ्यस्तस्याः पृथक् कल्पनावैयर्थ्यम् । अक्षणिका चेत् । अन्वयिपदार्थाभ्युपगमेनागमबाधः, तथा च पदार्थान्तराणां क्षणिकत्वकल्पनाप्रयासो व्यसनमात्रम् । __अनुभयपक्षेणापि न घटेते । स हि कदाचित् एवं ब्रूयात्, नाहं वासनायाः क्षणश्रोणितोऽभेदं प्रतिपद्ये, न च भेदं किंत्वनुभयमिति । तदप्यनुचितम् , भेदाभेदयोविधिनिषेधरूपयोरेकतरप्रतिषेधेऽन्यतरस्यावश्यं विधिभावात् अन्यतरपक्षाभ्युपगमः, तत्र च प्रागुक्त एव दोषः । अथवानुभयरूपत्वेऽवस्तुत्वप्रसङ्गः, भेदाभेदलक्षणपक्षद्वयव्यतिरिक्तस्य मार्गान्तरस्य नास्तित्वात् । अनाहतानां हि वस्तुना भिन्नेन वा भाव्यम् , अभिन्नेन वा । तदुभयातीतस्य वन्ध्यास्तनन्धयप्रायत्वात्। एवं विकल्पत्रयेऽपि क्षणपरम्परा-वासनयोरनुपपत्तौ पारिशेष्याद् भेदाभेदपक्ष एव कक्षीकरणीयः । न च "प्रत्येकं यो भवेद् दोषो द्वयोर्भावे कथं न सः।” इति वचनादत्रापि दोषतादवस्थ्यमिति वाच्यं कुक्कुटसर्प-नरसिंहादिवद् जात्यन्तरत्वादनेकान्तपक्षस्य ।
ननु आर्हतानां वासना-क्षणपरम्परयोरङ्गीकार एव नास्ति । तत्कथं तदाश्रयभेदाभेदचिन्ता चरितार्था इति चेत् । नैवम् । स्याद्वादवादिनामपि हि प्रतिक्षणं नवनवपर्यायपरम्परोत्पत्तिराभिमतैव, १ ' पृथक् कल्पनं व्यर्थम् ' इति ख. ह. घ. रा. पुस्तकेषु पाठः । २ केवलं संकटपरम्परेत्यर्थः । ३ ' अवश्यम् ' इति क. ह. पुस्तकयोरधिकम् ।
४ यथा नरसिंहे नरत्वसिंहत्वोभयजातिव्यतिरिक्तं नरसिंहत्याख्यं जात्यन्तरम् । तद्वदित्यर्थः । कुक्कुटसर्पोऽपि कश्चन कुक्कुटत्वसर्पत्वेत्युभयजातिव्यतिरिक्तः कुक्कुटसर्पत्वजातिमान् प्राणिविशेषः स्यात् ।