________________
१६०
श्लोक १९
अन्ययागव्यवच्छेदिका तथा च क्षणिकत्वम् । अतीतानागतवर्तमानपर्यायपरम्परानुसंधायक चान्वयिद्रव्यम् , तच्च वासनोत संज्ञान्तरभाक्त्वेऽप्यभिमतमेव । न खलु नामभेदाद् वादः कोऽपि कोविदानाम् । सा च प्रतिक्षणोत्पदिष्णुपर्यायपरम्परा अन्वयिद्रव्यात् कथंचिद् भिन्ना, कथंचिदभिन्ना च । तथा तदापि तस्याः स्याद् भिन्नं स्यादभिन्नम् । इति पृथक्प्रत्ययव्यपदेशविषयत्वाद् भेदः, द्रव्यस्यैव च तथा तथा परिणमनादभेदः । एतच्च सकलादेशविकलादेशव्याख्याने पुरस्तात् प्रपञ्चयिष्यामः ।
अपि च, बौद्धमते वासनापि तावन्न घटते; इति निर्विषया तत्र भेदादिविकल्पचिन्ता । तल्लक्षणं हि-पूर्वक्षणेनोत्तरक्षणस्य वास्यता । न चास्थिराणां भिन्नकालतयान्योन्यासंबद्धानां च तेषां वास्यवासकभावो युज्यते, स्थिरस्य संवद्धस्य च वस्त्रादेमंगमैदादिना वास्यत्वं दृष्टमिति । अथ पूर्वचित्तसहजात् चेतनाविशेषात् पूर्वशक्तिविशिष्टं चित्तमुत्पद्यते, सोऽस्य शक्तिविशिष्टचित्तोत्पादो वासना, तथाहिपूर्वचित्तं रूपादिविषयं प्रवृत्तिविज्ञानं यत्तत् षड्वि धं पञ्च रूपादिविज्ञानान्यविकल्पकानि, षष्ठं च विकल्पविज्ञानम्, तेन सह जातः समानकालश्चेतनाविशेषोऽहङ्कारास्पदमालयविज्ञानम्, तस्मात् पूर्वशक्तिविशिष्टचित्तोत्पादो वासनेति। तदपि न, अस्थिरत्वाद्वासकेनासंबन्धाच्च । यश्चासौ चेतनाविशेषः पूर्वचित्तसहभावी, स न वर्तमाने चेतस्युपकारं करोति-वर्तमानस्याशक्यापनेयोपनेयत्वेनाविकार्यत्वात्, तद्धि यथाभूतं जायते तथाभूतं विनश्यतीति । नाप्यनागते उपकारं करोति । तेन सहासंवद्धत्वात् , असंबद्धं च न भावयतीत्युक्तम् । तस्मात् सौगतमते वासनापि न घटते । अत्र च स्तुति
१ कोविदाः-पण्डिताः। २ त्रयोविंशश्लोके प्र. १५ इत्यत्र । ३ मृगमदः-कस्तूरिका ।