________________
- स्याद्वादमञ्जरीसहिता श्लोक १९ कारेणाभ्युफेत्यापि ताम्, अन्वयिद्रव्यव्यवस्थापनाय भेदाभेदादिचर्चा विवेरितोत भावनीयम् ।
_अथोत्तरार्धव्याख्या-तत इति पक्षत्रयेऽपि दोषसद्भावात् त्वदुक्तानि भवद्वचनानि भेदाभेदस्याद्वादसंवादपूतानि, परे कुतीर्थ्याः प्रकरणात् मायातनयाः, श्रयन्तु आद्रियन्ताम् । अत्रोपमानमाहतटादर्शीत्यादि-तटं न पश्यतीति तटादर्शी, यः शकुन्तपोतः पक्षिशावकः, तस्य न्याय उदाहरणम्, तस्मात् । यथा किल कथमप्यपारपारावारान्तः पतितः काकादिशकुनिशावको बहिर्निर्जगमिषया प्रवहणकूपस्तम्भादेस्तटप्राप्तये मुग्धतयोड्डीनः, समन्ताज्जलैकार्णवमेवावलोकयंस्तटमदृष्ट्वैव निर्वेदाद व्यावृत्त्य तदेव कूपस्तम्भादिस्थानमाश्रयते । गत्यन्तराभावात्, एवं तेऽपि कुतीर्थ्याः प्रागुक्तपक्षत्रयेऽपि वस्तुसिद्धिमनासादयन्तस्त्वदुक्तमेव चतुर्थ भेदाभेदपक्षमनिच्छयापि कक्षीकुर्वाणास्त्वच्छासनमेव प्रतिपद्यन्ताम् । नहि स्वस्य बलविकलतामाकलय्य बलीयसः प्रभोः शरणाश्रयणं दोषपोषाय नीतिशालिनाम् | त्वदुक्तानीति बहुवचनं सर्वेषामाप तत्रान्तरीयाणां पदे पदेऽनेकान्तवादप्रतिपत्तिरेव यथावस्थितपदार्थप्रतिपादनौपायक नान्यदिति ज्ञापनार्थम् । अनन्तधर्मात्मकस्य सर्वस्य वस्तुनः सर्वनयात्मकेन स्याद्वादेन विना यथावद् ग्रहीतुमशक्यत्वात् । इतर१ ' भेदाभेदचर्चा ' इति क. पुस्तके पाठः । २' विरचितेति' ह, क. पुस्तकयोः पाठः । ३ ' विभावनीयम् ' इति ख. पुस्तके पाठः । ४ ' मायासूनवीयाः ' इति क. ह. पुस्तकयोः पाठः । ५ उद्वेगात् । ६ ' अनेकधर्मात्मनः सर्वस्यापि ' इति क. पुस्तके पाठः ।
२१