SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्लोक १९ अन्ययोगव्यवच्छेदिका १६२ थान्धंगजन्यायेन पल्लवग्राहिताप्रसङ्गात् । श्रयन्तीति वर्तमानान्तं केचित्पठन्ति, तत्राप्यदोषः । अत्र च समुद्रस्थानीयः संसारः, पोतसमानं त्वच्छासनम्, कूपस्तम्भसंन्निभः स्याद्वादः, पक्षिपोतोपमा वादिनः, ते च स्वाभिम तपक्षप्ररूपणोड्डयनेन मुक्तिलक्षणतटमाप्तये कृतप्रयत्ना अपि तस्माद् इष्टार्थसिद्धिमपश्यन्तो व्यावृत्त्य स्याद्वादरूपकूपस्तम्भालङ्कृततावकीन शासनप्रवहणोपसर्पणमेव यदि शरणीकुर्वते, तदा तेषां भवार्णवाद वहिर्निष्क्रमणमनोरथः सफलतां कलयति, नापरथा इति काव्यार्थः ॥ १९ ॥ एवं क्रियावादिनां प्रावादुकानां कतिपय कुग्रहनिग्रहं विधाय सांप्रतमक्रियावादिनां लौकायतिकानां मतं सर्वाधमत्वादन्त उपन्यस्यन् तन्मतमूलस्य प्रत्यक्षप्रमाणस्यानुमानादिप्रमाणान्तरानङ्गीकारेऽकिंचित्करत्वप्रदर्शनेन तेषां प्रज्ञायाः प्रमादमादर्शयति , १ अन्धगजन्यायः ( १११ ) पत्रे द्रष्टव्यः । २ लक्षणं - - १ किंचिन्मात्रग्राहिणः २ पल्लवग्राहिणः ३ त्वरितग्राहिणः एवमेषा दुर्विदग्धत् त्रिविधा भणिता । तेषु पल्लवग्राहिणीमाह 6 न कत्थइ निम्तो ण य पुच्छइ परिभवस्स दोसेणं । बत्थीव वायपुण्णो फुट्टइ गामिल्ल गवियो || ग्रामेयकेषु विदग्धो ग्रामेयकविदग्धो न च कुत्रचिन्निर्मातः सर्वत्र पल्लवमात्रग्रा हित्वात् । न च परं पृच्छति परिभवो मे भविष्यतीति । परिभवस्य दोषेण केवलं वस्तिरिव वातपूर्णः पण्डितोऽयमिति लोकप्रवादगर्वितः स्फुटति स्फुटन्निव तिष्ठति । इति सभाष्या बृहत्कल्पवृत्तिः उ १ प्र १ । ३ ' पोतसमम् ' इति क . पुस्तके पाठ: । ४ प्रावादुकाः - वाग्मिनः । लौकायतिकाः - चार्वाकाः ।
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy