SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ . १६३ . स्याद्वादमञ्जरीसहिता श्लोक २० विनानुमानेन पराभिसन्धि मसंविदानस्य तु नास्तिकस्य । . न साम्प्रतं वक्तुमपि क चेष्टा क दृष्टमात्रं च हहा ! प्रमादः ॥२०॥ प्रत्यक्षमेवैकं प्रमाणमिति मन्यते चार्वाकः । तत्र सन्नद्यतेअनु पश्चाद् लिङ्गसंबन्धग्रहणस्मरणानन्तरम्, मीयते परिच्छिद्यते, देशकालस्वभावविप्रकृष्टोऽर्थोऽनेन ज्ञानविशेषेण, इत्यनुमानं प्रस्तावात् स्वार्थानुमानम् । तेनानुमानेन लैङ्गिकप्रमाणेन विना पराभिसंधिपराभिप्रायम् , असंविदानस्य-सम्यग् अजानानस्य । तुशब्दः पूर्ववादिभ्यो भेदद्योतनार्थः-पूर्वेषां वादिनामास्तिकतया विप्रतिपत्तिस्थानेषु क्षोदः कृतः । नास्तिकस्य तु वक्तुमपि नौचिती, कुत एव तेन सह लोदः ? इति तुशब्दार्थः । नास्ति परलोकः, पुण्यम्, पापम् इति वा मतिरस्य "नास्तिकास्तिकदैष्टिकम्" इति निपातनात् नास्तिकः, तस्य नास्तिकस्य लौकायतिकस्य, वक्तुमपि न सांप्रतं वचनमप्युच्चारयितुं नोचितम्, ततस्तूष्णींभाव एवास्य श्रेयान् दूरे प्रामाणिकपरिषदि प्रविश्य प्रमाणोपन्यासगोष्ठी । वचनं हि परप्रत्ययनाय प्रतिपाद्यते । परेण चाप्रतिपित्सितमर्थ प्रतिपादयेन् नासौ सतामवधेयवचनो भवति, उन्मत्तवत् । ननु १ खण्डनार्थ प्रयत्यते । २ अनुमानं द्विविधं-स्वार्थ परार्थ च-' तत्र हेतुग्रहणसम्बन्धस्मरणकारकं साध्यविधानं स्वार्थम् । पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ' इति प्रमाणनयतत्त्वालोकालङ्कारे तृतीयपरिच्छेदे सूत्र १०, २३ । ३ क्षोदः—विचारः । ४ हैमसूत्रम् ६-४-६६।। ५ ' प्रतिपादयन्नसौ' इति क. ख. घ. रा. पुस्तकेषु पाठः ।
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy