________________
श्लोक २०
अन्ययोगव्यवच्छेदिका कथमिव तूष्णीकतैवास्य श्रेयसी, यावता चेष्टाविशेषादिना प्रतिपावल्याभिप्रायमनुमाय सुकरमेवानेन वचनोच्चारणम् । इत्याशङ्कयाहक चेष्टा क दृष्टमात्रं च इति । कति बृहदन्तरे, चेष्टा इङ्गितम्पराभिप्रायस्यानुमेयस्य लिङ्गम् । क च दृष्टमात्रम् । दर्शनं दृष्ट, भावे तः। दृष्टमेव दृष्टमात्रम् प्रत्यक्षमात्रम्, तस्य लिङ्गनिरपेक्षप्रवृत्तित्वात अत एव दूरमन्तरमेतयोः । न हि प्रत्यक्षेणातीन्द्रियाः परचेतोवृत्तयः परिज्ञातुं शक्याः, तस्यैन्द्रियकत्वात् । मुखप्रसादादिचेष्टया तु लिङ्गभूतया पराभिप्रायस्य निश्चये अनुमानप्रमाणमनिच्छतोऽपि तस्य बलादापतितम् । तथाहि-मद्वचनश्रवणाभिप्रायवानयं पुरुषः, तादृग् मुखप्रसादादिचेष्टान्यथानुपपत्तरिति । अतश्च हहा ! प्रमादः--हहा इति खेदे अहो ! तस्य प्रमादः प्रमत्तता, यदनुभूयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणापह्नते। अत्र संपूर्वस्य वेत्तेरकर्मकत्व एवात्मनेपदम्, अत्र तु कर्मास्ति, तत्कथमत्रानश् । अत्रोच्यते-अत्र संवेदितुं शक्तः संविदान इति कार्यम् , “ वयः शक्तिशाले" इति शक्तौ शानविधानात् । ततश्चायमर्थः-अनुमानेन विना पराभिसंहितं सम्यग् वेदितुमशक्तस्येति । एवं परबुद्धिज्ञानान्यथानुपपत्त्यायमनुमानं हठाद अङ्गीकारितः । तथा प्रकारान्तरेणाप्ययमङ्गीकारयितव्यः, तथाहिचार्वाकः काचित् ज्ञानव्यक्तीः संवादित्वेनाव्यभिचारिणीरुपलभ्य, अन्याश्च विसंवादित्वेन व्यभिचारिणीः । पुनः कालान्तरे तादृशीतराणां ज्ञानव्यक्तीनामवश्यं प्रमाणतेतरते व्यवस्थापयेत् । न च सनिहितार्थबलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं पूर्वापरकाल
१ 'क्तक्तवतू' इति हैमसूत्रम् ५।१।१७४ हैमसूत्रम् ।
२ — समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यर्तिदृशः । ३-३-८४ संपूर्वेभ्यः कर्मण्यसति कर्तर्यात्मनेपदं स्यात् ।
३ हैमसूत्र. ५।२।२४