________________
श्लोक २०
१६५
भाविनीनां ज्ञानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकं निमित्तमुपलक्षयितुं क्षमते । न च अयं स्वप्रतीतिगोचराणामपि ज्ञानव्यक्तीनां परं प्रति प्रामाण्यमप्रामाण्यं वा व्यवस्थापयितुं प्रभवति । तस्माद् यथादृष्टज्ञानव्यक्तिसाधर्म्यद्वारेणेदानीन्तनज्ञानव्यक्तीनां प्रामाण्याप्रामाण्यव्यवस्थापकम् । परप्रतिपादकं च प्रामाणान्तरमनुमानरूपमुपासीत । परलोकादिनिषेधश्च न प्रत्यक्षमात्रेण शक्यः कर्तुम्, संनिहितमात्रविषयत्वात् तस्यं । परलोकादिकं चाप्रतिषिध्य नायं सुखमास्ते, प्रमाणान्तरं च नेच्छतीति डिम्भहेोकः । -
स्याद्वादमञ्जरीसहिता
किञ्च, प्रत्यक्षस्याप्यर्थाव्यभिचारादेव प्रामाण्यम् । कथमितरथा स्नान - पानावगाहनाद्यर्थक्रियासमर्थे मरुमरीचिकानिचय चुम्बिनि जलज्ञाने न प्रामाण्यम् । तच्च अर्थप्रतिबद्धलिङ्गशब्दद्वारा समुन्मज्जतोरनुमानागमयोरप्यर्थाव्यभिचारादेव किं नेष्यतेः । व्यभिचारिणोरप्यनयोर्दर्शनाद अप्रामाण्यमिति चेत् । प्रत्यक्षस्यापि तिमिरादिदोषाद् निशीथिनीनाथयुगलावलम्बिनोऽप्रमाणस्य दर्शनात् सर्वत्राप्रामाण्यप्रसङ्गः । प्रत्यक्षाभासं तदिति चेत् । इतरत्रापि तुल्यमेतत् अन्यत्र पक्ष - पातात् । एवं च प्रत्यक्षमात्रेण वस्तुव्यवस्थानुपपत्तेः, तन्मृला जीवपुण्यापुण्यपरलोकनिषेधादिवादा अप्रमाणमेव । एवं नास्तिकाभि मतो भूतचिद्वादोऽपि निराकार्यः । तथा च द्रव्यालङ्कारकार उपयोगवर्णने – “न चायं भूतधर्मः सत्त्वकठिनत्वादिवद्, मद्याङ्गेषु भ्रम्यादिशक्तिवद् वा प्रत्येकमनुपलम्भात् । अनभिव्यक्तावात्मसिद्धिः । कायाकारपरिणतेभ्यस्तेभ्यः स उत्पद्यते इति चेत् । कायपरिणामोऽपि तन्मात्रभावी १ 'परप्रतिपादकं' इत्यधिकं क . पुस्तके |
२ बालहठः ।
३ मरुमरीचिका - मृगजलम् ।
४ 'न' इत्यधिकं क पुस्तके |