________________
श्लोक २. अन्ययोगव्यवच्छेदिका
१६६ न कादाचित्कः, अन्यस्त्वात्मैव स्यात् । अहेतुत्वे न देशादिनियमः, मृतादपि च स्यात् । शोणिताद्युपाधिः सुप्तादावप्यस्ति, न च सतस्तस्योत्पत्तिः भूयो भूयः प्रसङ्गात्, अलब्धात्मनश्च प्रसिद्धमर्थक्रियाकारित्वं विरुध्यते । असतः सकलशक्तिविकलस्य कथमुत्पत्तौ कर्तृत्वम् अन्यस्यापि प्रसङ्गात् । तन्न भूतकार्यमुपयोगः। कुतस्तर्हि सुप्तोत्थितस्य तदुदयः? असंवेदनेन चैतन्यस्याभावात् । न, जाग्रदवस्थानुभूतस्य स्मरणात् असंवेदनं तु निद्रोपघातात् । कथं तर्हि कायविकृतौ चैतन्यविकृतिः । नैकान्तः, श्वित्रादिना कश्मलवपुषोऽपि बुद्धिशुद्धः, अविकारे च भावनाविशेषः प्रीत्यादिभेददर्शनात्, शोकादिना बुद्धिविकृतौ कायविकारादर्शनाच्च । परिणामिनो विना च न कार्योत्पत्तिः । न च भूतान्येव तथा परिणमन्ति । विजातीयत्वात् , काठिन्यादेरनुपलम्भात् । अणव एवेन्द्रियग्राह्यत्वरूपां स्थूलतां प्रतिपद्यन्ते, तज्जात्यादि चोपलभ्यते । तन्न भूतानां धर्मः, फलं वा उपयोगः । तथा भवांश्च यदाक्षिपति तदस्य लक्षणम् । स चात्मा स्वसंविदितः । भूतानां तथाभावे बहिर्मुखं स्याद् गौरोऽहमित्यादि तु, नान्तर्मुखं; बाह्यकरणजन्यत्वात् । अनभ्युपगतानुमानप्रामाण्यस्य चात्मनिषेधोऽपि दुर्लभः।। . धर्मः फलं च भूतानम् उपयोगो भवेद् यदि ।
प्रत्येकमुपलम्भः स्यादुत्पादो वा विलक्षणात् ॥१॥ इति काव्यार्थः ॥२०॥ १ श्वित्रं-कुष्ठम् । २ 'अपि' इति क. पुस्तके नास्ति ।