________________
१६७
स्याद्वादमञ्जरीसहिता
श्लोक २१ एवमुक्तयुक्तिभिरेकान्तवादप्रतिक्षेपमाख्याय साम्पतमनाद्यविद्यावासनाप्रवासितसन्मतयः प्रत्यक्षोपलक्ष्यमाणमप्यनेकान्तवादं येऽवमन्यन्ते, तेषामुन्मत्ततामाविर्भावयन्नाह-.
प्रतिक्षणोत्पादविनाशयोगि
स्थिरैकमध्यक्षमपीक्षमाणः। जिन ! त्वदाज्ञामवमन्यते यः
स वातकी नाथ पिशाचकी वो ॥२१॥ प्रतिक्षणं प्रतिसमयम् उत्पादेनोत्तराकारस्वीकाररूपेण, विनाशेन च पूर्वाकारपरिहारलक्षणेन, युज्यत इत्येवं शीलं प्रतिक्षणोत्पादविनाशयोगि । किं तत् , स्थिरैकं कर्मतापन्न-स्थिरमुत्पादविनाशयोरनुयायित्वात् त्रिकालवर्ति यदेकं द्रव्यं स्थिरैकम् । एकशब्दोऽत्र साधारणवाची । उत्पादे विनाशे च तत्साधारणम् , अन्वयिद्रव्यत्वात् । यथा चैत्रमैत्रयोरेका जननी साधारणेत्यर्थः। इत्थमेव हि तयोरेकाधिकरणता । पर्यायाणां कथश्चिदनेकत्वेऽपि तस्य कथञ्चिदेकत्वात् । एवं त्रयात्मकं वस्तु, अध्यक्षमपीक्षमाणः प्रत्यक्षमवलोकयन् अपि, हे जिन ! रागादिजैत्र ! त्वदाज्ञाम्-आ सामस्त्येनानन्तधर्मावशिष्टतया ज्ञायन्तेऽवबुध्यन्ते जीवादयः पदार्था यया सा आज्ञा आगमः शासनं, तवाज्ञा त्वदाज्ञा तां त्वदाज्ञां-भवत्प्रणीतस्याद्वादमुद्राम् , यः कश्चिदविवेकी, अवमन्यतेऽवजानाति, जात्यपेक्षमेकवचनमवज्ञया वा । स पुरुषपशुर्वातकी पिशाचकी वा-वातो रोगविशेषोऽस्तीति वातकी वातकीव वातकी, वातूल इत्यर्थः । एवं पिशाचकीव पिशाचकी, भूताविष्ट इत्यर्थः । अत्र
१ च ' इति क. पुस्तकं पाठः । २ ' जीवाजीवादयः ' इति क. ह. पुस्तकयोः पाठः ।