________________
१६८
श्लोक २१
अन्ययोगव्यवच्छेदिका वाशब्दः समुच्चयार्थः, उपमानार्थो वा । स पुरुषापसदो वातकिपिशाचकिभ्यामधिरोहति तुलामित्यर्थः' “वातातीसारपिशाचात्कश्चान्तः" इत्यनेन मत्वर्थीयः, कश्चान्तः । एवं पिशाचकीत्याप । यथा किल वातेन पिशाचेन वाक्रान्तवपुर्वस्तुतत्त्वं साक्षाकुर्वन्नपि तदावेशवशात् अन्यथा प्रतिपद्यते, एवमयमप्येकान्तवादापस्मारपरवश इति ।
अत्र च जिनेति साभिप्रायम्-रागादिजेतृत्वाद् हि जिनः, ततश्च यः किल विगलितदोषकालुष्यतयावधेयवचनस्यापि तत्र भवतः शासनमवमन्यते, तस्य कथं नोन्मत्ततेति भावः । नाथ ! हे स्वामिन् , अलब्धस्य सम्यग्दर्शनादेर्लम्भकतया, लब्धस्य च तस्यैव निरतिचारपरिपालनोपदेशदायितया च योगक्षेमकरत्वोपपत्तेथिः; तस्यामन्त्रणम् ।
वस्तुतत्त्वं चोत्पादव्ययध्रौव्यात्मकम् । तथाहि-सर्व वस्तु द्रव्यात्मना नोत्पद्यते विपद्यते वा । परिस्फुटमन्वयदर्शनात् । लूनपुनजर्जातनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम् । प्रमाणेन बाध्यमानस्यान्वयस्यापरिस्फुटत्वात् । न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः, सत्यप्रत्यभिज्ञानसिद्धत्वात्"सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः।
सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात्" ॥१॥ इति वचनात् ।
। ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः, पर्यायात्मना तु सर्व वस्तूत्पद्यते विपद्यते च । अस्खलितपर्यायानुभवसद्भावात् । न १ च शब्दः' इति क. पुस्तके पाठः। २ हैमसूत्रम् ७।२।६१ ३ यत्र विरुद्धं प्रलपति रोगी तादृशो ज्वरविशेषोऽपस्मारशब्दवाच्यः । ४ नखकेशादि लूनं छिन्नमपि पुनर्जायते ।