SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ ___ स्याद्वादमञ्जरीसहिता श्लोक २१ चैवं शुक्ले शङ्ख पीतादिपर्यायानुभवेन व्यभिचारः तस्य स्खलद्रूपत्वात् , न खलु सोऽस्खलद्रूपो येन पूर्वाकारविनाशाजहद्धृतोत्तराकारोत्पादाविनाभावि भवेत् , न च जीवादी वस्तुनि हर्षामाँदासीन्यादिपर्यायपरम्परानुभवः स्खलद्रूपः, कस्यचिद् बाधकस्याभावात् । ननूत्पादादयः परस्परं भिद्यन्ते न वा ? । यदि भिद्यन्ते, कथमेकं वस्तु त्रयात्मकम् ? न भिद्यन्ते चेत् । तथापि कथमेकं त्रयात्मकम् ? तथाच यद्युत्पादादयो भिन्नाः कथमेकं त्रयात्मकम् । अथोत्पादादयोऽभिन्नाः कथमेकं त्रयात्मकम् ॥१॥ इति चेत् । तदयुक्तं कथंचिद्भिन्नलक्षणत्वेन तेषां कथञ्चिद्भेदाभ्युपगमात् । तथाहि-उत्पादविनाशध्रौव्याणि स्याद् भिन्नानि, भिन्नलक्षणत्वात् , रूपादिवदिति । न च भिन्नलक्षणत्वमसिद्धम् । असत आत्मलाभः, सतः सत्तावियोगः, द्रव्यरूपतयानुवर्तनं च खलुत्पादादीनां . परस्परमसंकीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव । .. न चामी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वापत्तेः । तथाहि-उत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात् कूर्मवत् तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात्, तद्वत् । एवं स्थितिः केवला नास्ति, विनाशोत्पादशून्यत्वात्, तद्वदेव । इत्यन्योऽन्यापेक्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथा चोक्तम्१ ' स्वल्वसौ ' इति क. पुस्तके पाठः । २२
SR No.002276
Book TitleSyadwad Manjari
Original Sutra AuthorN/A
AuthorMotilal Ladhaji
PublisherMotilal Ladhaji
Publication Year1912
Total Pages320
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy