________________
श्लोक २२ अन्ययोगव्यवच्छेदिका
१७. “घंट-मौलि-सुवर्णार्थी नाशोत्पादस्थितिष्वयम्।
शोक-प्रमोद-माध्यस्थं जनो याति सहेतुकम् ॥१॥ पयोवृत्तो न दध्यत्ति न पयोऽत्ति दधिव्रतः ।
अगोरसवतो नोभे तस्माद् वस्तु त्रयात्मकम् ॥२॥" इति काव्यार्थः ॥२१॥
अथान्ययोगव्यवच्छेदस्य प्रस्तुतत्वात् आस्तां तावत्साक्षाद् भवान्, भवदीयप्रवचनावयवा अपि परतीर्थिकतिरस्कारबद्ध कक्षा इत्याशयवान् स्तुतिकारः स्याद्वादव्यवस्थापनाय प्रयोगमुपन्यस्यन् स्तुतिमाह
अनन्तधर्मात्मकमेव तत्त्व
मतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादि
कुरङ्गसंत्रासनसिंहनादाः ॥२२॥ तत्त्वं परमार्थभूतं वस्तु-जीवाज़ीवलक्षणम्, अनन्तधर्मात्मकमेव-अनन्तात्रिकालविषयत्वाद् अपरिमिता ये धर्माः सहभाविनः क्रमभाविनश्च पर्यायाः। त एवात्मा स्वरूपं यस्य तदनन्तधर्मात्मकम्, एवकारः प्रकारान्तरव्यवच्छेदार्थः । अत एवाह-अतोऽन्यथा इत्यादि । अतोऽन्यथा उक्त कारवैपरीत्येन सत्त्वं, वस्तुतत्त्वमसूपपाद-सुखेनोपपाद्यते घटनाकोटिसंटङ्कमारोप्यते इति मूपपादं न तथा असूपपादं दुर्घटामत्यर्थः । अनेन साधनं दर्शितम् । तथाहि-तत्त्वमिति धर्मि, अनन्तधर्मात्मकत्वं साध्यो धर्मः, सत्त्वान्यथानुपपत्तेरिति हेतुः, अन्यथानुपपत्त्येकलक्षणत्वाद्धेतोः । अन्तर्व्याप्त्यैव साध्यस्य सिद्ध१ श्रीसमन्तभद्रस्वामिकृता आप्तमीमांसा श्लो. ५९।६० । २ अयं श्लोकः क. पुस्तके नास्ति । ३ ' लक्षणात् ' इति क, पुस्तके पाठः ।