________________
१७१ स्याद्वादमञ्जरीसहिता
श्लोक २२ त्वाद् दृष्टान्तादिभिर्न प्रयोजनम्, यदनन्तधर्मात्मकं न भवति तत् सदपि न भवति, यथा वियदिन्दीवरम्, इति केवलव्यतिरेकी हेतुः, साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनान्वयायोगात्। ___अनन्तधर्मात्मकत्वं च-आत्मनि तावद् साकारानाकारोपयोगिता, कर्तृत्वं भोक्तृत्वं, प्रदेशाष्टकनिश्चलता, अमूर्तत्वम् , असंख्यातप्रदेशात्मकता, जीवत्वमित्यादयः सहभाविनो धर्माः । हर्ष-विषाद--शोक सुख-दुःख-देव-नर-नारक-तिर्यक्त्वादयस्तु क्रमभाविनः । धर्मास्तिकायादिष्वपि असंख्येयप्रदेशात्मकत्वम् ,
१ आकाशकमलम् । २ पक्षान्तर्गत्वेनेत्यर्थः।। ३ श्रीहरिभद्रसूरिणा धर्मसंग्रहण्यां ५४६ गाथामारभ्य पंचत्रिंशद्भिर्गाथाभिःसमुपपादितम् ।
४ धर्मसंग्रहण्यां ५८१ गाथामारभ्य पञ्चविंशतिभिर्गाथाभिः प्रसाधितम् । ५ धर्मसंग्रहणीगाथा १९२।१९३ .
६ धर्मसंग्रहण्यां ३६ गाथामारभ्य त्रयोविंशत्यधिकेन गाथाशतकेन जीवसत्ता प्रसाधिता। ___ ७ अस्तीत्ययं त्रिकालवचनो निपातः । अभूवन् भवन्ति भविष्यन्ति चेति भावना । अतोऽस्ति च ते प्रदेशानां ( तादृशदेशसम्बन्धकत्वे सति अविभागभागविशेषकल्पनारूपःप्रदेशः ) कायाश्च रांशय इति अस्तिशब्देन प्रदेशप्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः । सा चतुर्धा धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकायश्च । एत एव कालेन सह पञ्च अजीवसामान्यमस्ति जीवेन सह च षड् द्रव्याणीति कथ्यन्ते । १ स्वभावतः सञ्चरतां जीवघुद्गलानां गमनागमनादिचेष्टासु भाषामनोवचःकाययोगादिषु मीनानां पानीयमिव यदापेक्षितकारणं तद्रूपत्वम् , गतिरूपेण परिणतानां जीवपुद्गलानां गतौ यदापेक्षितकारणं तद्रूपत्वं वा धर्मास्तिकायस्य लक्षणम् । २ स्वभावतः स्थितिमतां जीवपुद्गलानां, पान्थानां छायास्थलमिव शयननिषदनस्थानालम्बनादिषु यत्साधारणनिमित्तं तद्रूपत्वं, स्थितिरूपेण परिणतानां जीवपुद्गलानां यत् साधारणनिमित्तत्वं तद्रूपत्वं वाऽधर्मास्तिकायस्य लक्षणम् । ३ अवगाहमानानां पदार्थानामवकाशे शर्करावह्नयोर्दुग्धायोगोलकवत् हेतुताधारकत्वमाकाशस्य लक्षणम् । ४ ग्रहणधारणादिपरिणामत्वे सति रूपादिमत्त्वम् , रूपादिसंस्थानपरिणामरूपत्वं वा पुद्गलास्तिकायस्य