________________
१७२
श्लोक २२
अन्ययोगव्यवच्छेदिका गत्यायुपग्रहकारित्वम् , मत्यादिज्ञानविषयत्वम् , तत्तदवच्छेदकावच्छेद्यत्वम् , अवस्थितत्वम् , अरूपित्वम् , एकद्रव्यत्वम् , निष्क्रयत्वमित्यादयः । घटे पुनरामत्वम् , पाकजरूपादिमत्त्वम् , पृथुबन्धोदरत्वम् , कम्बुग्रीवत्वम् , जलादिधारणाहरणादिसामर्थ्यम् , मत्यादिज्ञानज्ञेयत्वम् , नवत्वम् , पुराणत्वमित्यादयः । एवं सर्वपदार्थेष्वपि नानानयमताभिज्ञेन शाब्दानार्थाश पर्यायान् प्रतीत्य वाच्यम् ।
अत्र चात्मशब्देनानन्तेष्वपि धर्मेष्वनुवृत्तिरूपमन्वयिद्रव्यं ध्वनितम् , ततश्च "उत्पाद-व्यय ध्रौव्ययुक्तं सत्” इति व्यवस्थितम् , एवं तावदर्थेषु । शब्देष्वपि उदात्तानुदात्त-स्वरित-विवृत्तसंवृत्त-घोषवदघोषताल्पंप्राणमहाप्राणतादयः, तत्तदर्थप्रत्यायनशक्तयादयश्चावसेयाः । अस्य हेतोरसिद्धविरुद्धानैकान्तिकत्वालक्षणम् । ५ वर्तन्ते भवन्ति भावास्तेन रूपेण तानं प्रति प्रयोजकत्वं वर्तना सा लक्षणमस्येति वर्तनालक्षणः कालः द्रुमादिपुप्पोद्भेदादिनयत्यहेतु: । ६ उपयोगवत्वं जीवस्य लक्षणम् । ज्ञानदर्शनयोः सम्यक् स्वविषयकसीमानुल्लङ्गनेन धारणरूपवत्त्वम् , बाह्याभ्यन्तरनिमित्तकत्वे सति आत्मनो यथायोगं चैतन्यानकारिपरिणामविशेषरूपत्वं वोपयोगस्य लक्षणम् ।
पुद्गलं विना सर्वद्रव्याण्यरूपाणि नित्यावस्थितानि च तत्र नित्यत्वं नाम परिणामान्तरापत्तौ सत्यामप्यन्वयिनोंऽशादप्रच्युतरूपत्वं कदाचिदपि पञ्चभूतार्थं न व्यभिचरतीत्यवरूपत्वमवस्थितस्य लक्षणम् । जीवपुद्गलौ विना निष्क्रियाण्यपि तानि सन्ति । तत्र क्रियावत्त्वं नाम कर्मबन्धनिबन्धनचेष्टाविशेषरूपत्वम् , निमित्तशब्दयापेक्षत्वे सति द्रव्यस्य देशान्तरप्राप्तिहेतुभूतपर्यायविशेषरूपत्वं वा । तदभाववत्त्वं निष्क्रियत्वम् ।
१ 'पकत्वम्' इति क, पुस्तके पाठः ।। २ 'धारणाहरणसामर्थ्यम्' इति क. ह. पुस्तकयोः पाठः ।
३ तत्त्वार्थसूत्रे अ. ५ सू. २९ उत्पादव्ययध्रौव्ययुक्तत्वं पदार्थसामान्यस्य लक्षणम् । तत्र-स्वजातित्वापरित्यागपूर्वकपरिणामान्तरप्रातिरूपत्वमुत्पादस्य लक्षणम् । स्वजातित्वापरित्यागपूर्वकपूर्वपरिणामविगमरूपत्वं व्ययस्य लक्षणम् । स्वजातिस्वरूपेण व्ययोत्पादाभावरूपत्वं, स्वजातित्वारूपेणानुगतरूपत्वं वा ध्रौव्यम्य लक्षणंम् ।